________________
१७० सवृत्तिके सटीके च प्रमाणसमुच्चये वैशेषिकप्रत्यक्षपरीक्षा । व्याख्याता" इति यदुक्तं तद् विरुध्यते । न हि चतुष्टयसन्निकर्पोत्पन्नेन ज्ञानेन 'निर्णयजं [ज्ञानं ] तुल्यम् , निर्णयस्य विकल्पपूर्वकत्वात् प्रत्यक्षस्य विषयालो वनमात्रत्वात्। विषयालोचनमात्रं हि चतुष्टयसन्निकर्षाजायते, तत्र विचारणा कुतः ?
इन्द्रियार्थसन्निकर्षप्रमाणवादेऽतिदेशः कोऽपि नास्त्येव । इन्द्रियार्थमन्निकर्ष5 प्रमाणवादिदर्शने 'किमेतत् ' इति जिज्ञासायां सर्वथा ग्रहणप्रसङ्गः, सर्वात्मना
सनिकृष्टत्वात् । आत्ममनःसन्निकर्षवादेऽपि विषय मेदः । न हि विषयान्तरे प्रमाणं भवत्यन्यत्र फलं भवतीति पूर्वमुक्तम् ।। ___ अपि च, 'सामान्यविशेषापेक्षं द्रव्यगुणकर्मापेक्षं च प्रत्यक्षम्' इति न
युज्यते, यस्मादिन्द्रियार्थसन्निकर्षोत्पन्नस्य विषयालोचनार्थत्वाद् योजना न 10 विशेषणैः। इन्द्रियबुद्धीनां स्वार्थमात्रग्राहित्वाद् विशेषणैः सह योगो
नोपपद्यते । ' इदमस्य सामान्यं द्रव्यादि वा' इत्यवश्यमर्थ द्वयं गृहीत्वा तथा सम्बन्धः कल्प्यते । ततो मतुब्लोपाद भेदोपचाराद्वा गृह्यते । तच्च विशेषणं स्मृत्योपस्थापितत्वाद् मनोबुद्धावुपपद्यते, अन्यथा सुरभि मधुगमिति ग्रहणमपि
प्रत्यक्षं स्यात् , तथा च न युज्यते विशेषणविशेष्ययोर्भिन्नेन्द्रियग्राह्यत्वात् । 15 यदि चैक द्रव्यमने केन्द्रियग्राह्यं तथा सति नैकम् , रूपादिवदने कं स्यात् ।
रूपादौ हि अनेकेन्द्रिय ग्राह्यस्यैकत्वं कचिदपि न दृष्टम् । रूपाद्य भेदो वा। यद्यने केन्द्रियग्राह्यमप्यभिन्नमिष्यते रूपाद्यपि द्रव्यवदेकं स्यात् । दृष्टं चेत् । यद्येवं
१ पूर्वापरसम्बन्धपर्यालो चनया — निर्णयस्योत्पत्तिस्तुल्या' इति पाठोऽप्यत्र सम्भवेत् । २ विषयालोचनमात्रार्थत्वात् VT. ॥ ३ विषयालोचनमात्रार्थ हि VT. । दृश्यतां पृ० १७६ पं० १६॥ ४ 20 समस्तार्थप्रहगं स्यात् PSV | तुलना-" सर्वथा ग्रहगप्रसङ्गश्च सर्वात्मना सन्निकृष्टत्वात् ।”-तत्त्वार्थ
राजवार्तिक. १ । १० । पृ० ५१ पं० ८ ॥ ५ विषयभेदोऽपि VT.। एवं चात्र ‘आत्ममनःसन्निकर्षवादे च विषयभेदोऽपि ' इत्यपि पाठः स्यात् ॥ ६ न ह्यन्यविषयस्य प्रमाणस्यान्यत्र फलं भवति' इति पाठो ' न हि विषयान्तरे प्रमागभावोऽन्यत्र फलभावः' इति वा पाठोऽप्यत्र भवेत् ।।
७ एतत्परिशिष्टान्ते पूर्तिष्टव्या ॥ ८ " सामान्यविशेषापेक्ष द्रव्यगुणकर्मसु । ८ । ६ । द्रव्ये गुगकर्मा25 पेक्षम् । ८ । ७ ।”-वै० सू०॥२ यविषयत्वात् Psv. ॥ १० " नन्वेवं काय चक्षुर्गोचरो धर्मी भिद्यते
ग्राहकभेदाद् रूपादिवत् । तानि वा सत्यपि ग्राहकभेदे न भिघेरन् । अने केन्द्रियग्राह्यमेकं सद् दृष्टं सत्त्वमिति चेत्, न, विकल्परूपस्येन्द्रिये गाग्रहणात् । अपि चेन्द्रियागां सङ्कीर्ण विषयत्वेऽक्षानेकत्ववैयर्थ्यमपि । एकमेव हि तदिन्द्रियं नानाविषयान् परिच्छेत्स्यतीति किमिन्द्रियभेदेन ? तदुक्तम्-नैकं रूपाद्यभेदो
वा दृष्टं चेन्नेन्द्रियेण तत् । अक्षानेकत्ववैयर्थ्य स्वार्थे भिन्नेऽपि शक्तिमत् ॥ इति ।" 30 -मीमांसाश्लोवार्तिककाशिका पृ० २५६ ॥ ११ ग्राह्यमेकं K ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org