________________
नयचक्रान्तर्गताश्चिरन्तनवैशेषिकोल्लेखाः। १५१ सम्बन्धश्च सम्बन्धश्च सम्बन्धौ । निष्ठायाः सम्बन्धौ निष्ठासम्बन्धौ, तयोरेककालत्वात् । निष्ठितं निष्ठा, कारकपरिस्पन्दाद् वस्तु भावमापनमव्यपदेश्याधारं कार्य निष्ठितं 'निष्ठा' इत्युच्यते, तस्य स्वकारणः सत्तया च युगपत् सम्बन्धौ भवतः । भाष्यमपि ' परिनिष्ठां गच्छद् ‘गतम्' इत्येतमर्थं दर्शयति । यथा कारकान्तरमुत्पद्यमानं वस्तुभावमापन्नमव्यपदेश्याधार निर्वृत्तं सत् स्वकारणैः सत्तया च 5 सम्बध्यते तथा पटाख्यम् ।-पृ० ५१२-५१३ ।
[वृत्ति:-] यदपि चोक्तमित्यादि ।......... विकल्पानुपपत्तेः' इति नासो दोषः ।.......निष्ठासम्बन्धयोरेककालत्वात् ।......त्रीनपि विकल्पाननाश्रित्य निष्ठासम्बन्धयोरेककालत्वविकल्पो निर्दोष आश्रीयतामिति । अत्रोच्यते-एतदपि न, अनु. पपन्न विकल्पत्वात् । -पृ. ५०८-५०९.
10 असत्सम्बन्धपरिहारार्थ चेत्यादि । 'निष्ठासंबन्धयोरेककालत्वात् ' इत्येतदेव
वैशेषिकदृष्टयेदम् ।” [ • । २ । ११] इत्यभिहितम् । अतः पद्मनाभमिश्रगोविन्दानन्दाभ्यां रावणभाष्यत्वेन कटन्दी अभिप्रेता आहोस्विदत्र नयचके निर्दिष्टं वाक्यभाष्यं ताभ्यामभिप्रेतमिति विचारणीयम् । वाक्यपदीयस्य टीकायां द्वितीयकाण्डान्ते पुण्यराजेन यो रावणो नाम वैयाकरणो निर्दिष्टः सोऽप्ययमेवान्यो वेति चिन्यम् । इदं तु ध्येयम्-अत्र निर्दिष्टं भाष्यं सम्प्रति प्रसिद्धात् प्रशस्तपाद- 15 भाष्याद् भिन्नमेव, यतोऽत्रोद्धृतानि भाष्यवचांसि प्रशस्तपादभाष्ये नोपलभ्यते । किञ्च, जिनेन्द्रबुद्धिना विरचितायां बौद्धाचार्यदिङ्नागरचितप्रमाणसमुच्चयस्य विशालामलवत्यभिधायां टीकायां ये भाष्यपाठा उद्धृतास्तेऽपि प्रशस्तपादभाष्ये नोपलभ्यन्ते । वस्तुतस्तु प्रशस्तपादभाष्यं न वैशेषिकसूत्राणां साक्षाद् व्याख्यानभूतम् , अपि तु वैशेषिकमनसंग्राहकः पृथगेव ग्रन्थः । अत: कुत आरभ्य तस्य भाष्यत्वेन प्रसिद्धिरित्यपि गवेषणीयं विद्वद्भिः । प्रशस्तपादेन तस्य ‘पदार्थधर्मसंग्रहः' इत्येव निर्देशः 20 कृतः । तत्त्वसङ्ग्रहपञ्जिका-सन्मतितकवृत्ति-प्रमेयकमलमार्तण्ड-न्यायकुमुदचन्द्रादिप्राचीनग्रन्थेषु तु 'पदार्थप्रवेशक'नाम्ना तस्योल्लेखो दृश्यते। वादिदेवसूरिरचिते स्याद्वादरत्नाकरे [ पृ. ९२० ] प्रशस्तकरभाष्यनाम्ना अन्येषु च ग्रन्थेषु तस्य भाज्यनाम्नाप्युल्लेखो यद्यपि दृश्यते तथापि सोऽर्वाचीनः । प्रशस्तमतिरेव प्रशस्तपादस्ततोऽन्यो वेत्यस्य विचारणायां वयं तु — प्रशस्तमतिः' इति प्रशस्तपादस्य नामान्तरमेवेति सम्भावयामः। 'प्रशस्तः प्रशस्तकरः प्रशस्तदेवः प्रशस्तकरदेवः प्रशस्तपादः' इत्येवं 25 बहुविधानि प्रशस्तपादस्य नामान्युपलभ्यन्ते, एवं प्रशस्तमतिरपि तस्य नामान्तरं स्यात् । किञ्च, तत्त्वसंग्रहपञ्जिकायां सन्मतितर्कवृत्त्यादिषु च वैशेषिकमतपरीक्षायां प्रशस्तमतेर्यद् मतमुद्धृतं तत्र विशेषपरीक्षायां समवायपरीक्षायां च यावानंशस्तावान् प्रशस्तपादभाध्ये प्रायो दृश्यते, अपरस्तु न दृश्यते । अत इदमपि सम्भाव्यते---एकस्तावद् वैशेषिकसूत्राणां तद्वाक्यभाष्ययोश्च टी काग्रन्थः प्रशस्तमतिना व्यरचि, अपरस्तु वैशेषिकमतसंग्राहकः पदार्थधर्मसंग्रहः पृथगेव निबन्धस्तेन रचितो यः सम्प्रति प्रशस्तपादभाष्यनाम्ना 80 विश्रुत इति ध्येयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org