________________
१५०
षष्ठं परिशिष्टम् । दिति ।......सदसदात्मकवस्तुतच्चप्रत्यक्षीकरणार्थ जैना एकमेवात्मानं परमार्थ द्रव्यार्थपर्यायार्थो भयलक्षण मुपवर्णयन्ति ...... । -पृ० ४९८-५०१.
[वृत्तिः-- ] यत्तूच्यत इत्यादि यावत् सप्तम्यभिधानेन दर्शयनीति सूत्रार्थः कटन्यां व्याख्यातः ....... । एतदपि न किश्चिदित्यायुतरम् .... । यदप्युक्तमापे5 क्षिकमित्यादि । स्याद्वादी किलेल्थं सदसत्यं समर्थय तीति पूर्वपक्षः। ........अत्र किलोत्तरं कटन्दीकार आह-न, असत्कार्यत्वसिद्धेः ।.... अत्र न पूर्वपक्ष इत्यादि आचार्यो ब्रूते । ...तस्मान्न स्याद्वादिन एवमाहुरेकान्तवादिन इवानपेक्ष्य पूर्वापरम् | कथं ताहुरिति चेत् , अत आह-सदसदात्मकेत्यादि । -पृ० ४९८-५०१.
[ मूलम्-] यदपि चोक्तम् –विकल्पत्यानाश्रयाद् विकल्पान्तराश्रयणाच 10 'विकल्पानुपपत्तेः' इति न दोषः, निष्ठासम्बन्धयोरे ककालत्वात् । निष्ठा कारण
सामग्र्यव्यापारकालः प्रागसतो वस्तुभावः निष्ठानं समाप्तिः......। सम्बन्धः स्वकारणसत्तासमवायः । तयोरे कालत्वम्, कारण सत्तासम्बन्ध एव निष्ठा काला । कुतः ? समवायस्यैकत्वात् । यस्मिन्नेव काले परिनिष्ठां गच्छत् कार्य
कारणैः संबध्यते समवायसम्बन्धेन अयुतसिद्धि हेतु ना तस्मिन्नेव काले सत्तादिभि15 रपि । तस्मादप्रविभागात् सदादिरनास्पदो विकल्पः ।-एतदपि न, अनुप
पन्नविकल्पत्वात् । -पृ० ५०८, ५०९ । असत्संबन्धपरिहारार्थ च 'निष्ठासम्बन्धयोरेक कालत्वात्' इत्येतदेव वाक्यं सभाष्यं प्रशस्तोऽन्यथा व्याचष्टे
१ वाक्यं भाष्यं चेदं केन कदा च प्रणीतमिति न ज्ञायते । तथापि पूर्वापरग्रन्थपर्यालोचनयेई __ स्फुटमत्र प्रतिभाति-कणादप्रणीतवैशेषिकसूत्रागां संक्षिप्तव्याख्यानरूपो वाक्यनामा कश्चिद् ग्रन्थ 20 आसीत् , तस्यापि केनचिद् विरचितं भाष्यमासीत् , भाष्यस्य तु प्रशस्तमतिना टीका विरचिताऽ
भूत् । टीकाया नामापि 'प्रशस्तमतिः' इत्यासीदिति संभाव्यते । वैशेषिकसूत्रागामनेकाष्टीका आसन्निति प्रतीयते । तत्र कटन्दीसंज्ञिकाप्यभूत् काचिट्टीका । “भो भो लक्ष्मण ? वशेषिककटन्दीपण्डितो जगद् विजयमानः पर्यटामि । क्वासौ रामः ? तेन विवदिष्ये । ” इति मुरारिकविविर चिते 'अनर्घराघव'
नाटके पञ्चमेऽङ्के रावणस्य वच उपलभ्यते। मा भूदयं लकापती रावणस्तथाप्यस्मादुल्लेखात् केनचिद् 25 रावणाभिधेनेयं कटन्दी विरचितेति सूच्यते, तथापि पदार्थधर्मसङ्ग्रहस्य " प्रणम्य हेतुमीश्वरम् " इति मङ्गलश्लोकस्य व्याख्याने " सूत्रे वैशद्याभावाद् भाष्यस्य च विस्तरत्वात् ” इत्यभिहितमुदयनाचार्यण किरणावल्याम् , अत्र च पद्मनाभमित्रेण “ ग्रन्थान्तरेगान्यथासिद्धिमपाकरोति सूत्र इति, भाष्यस्य रावणप्रणीतस्य ।" इति व्याख्यातम् । किञ्चान्यत्, गोविन्दानन्देन ब्रह्मसूत्रशाङ्करभाष्य
व्याख्यायां रत्नप्रभायां " यदापि द्वे इति ।......द्वाभ्यां द्वयणुकाभ्यामारब्धकार्ये महत्त्वं दृश्यते, 30 तस्य हेतुः प्रचयो नाम प्रशिथिलावयवसंयोग इति रावण प्रणीते भाष्ये दृश्यते । इति चिरन्तन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org