________________
नयचक्रान्तर्गताश्चिरन्तनवैशेषिकोल्लेखाः ।
१४७ सिंहमूरिगणिवादिक्षमाश्रमणरचिता न्यायागमानुसारिणी वृत्तिरेव सम्प्रत्युपलभ्यते । द्वात्रिंशद्भिरक्षरेरेकः श्लोक इति गणनया अष्टादशसहस्र[१८०००] श्लोकपरिमितेयं वृत्तिः । अस्यां व्याख्यानार्थमुपात्ता नयचक्रमूलम्य प्रतीकाः प्राचुर्येणोपलभ्यन्ते । अत एतान् प्रतीकान् संयोज्य ग्रन्थान्तरसाहाय्येन च नयचक्रस्वरूपमस्मत्संकलितमेव ज्ञेयम् । अयं वृत्तिकारो वैक्रमे सप्तमे शतके ततः पूर्वं वासीदित्यनेकैः कारणैः सम्भाव्यतेऽतो वृत्तिस्था । उल्लेखा अपि प्राचीनवैशेषिकदर्शनग्रन्थ-ग्रन्थकृतां विषये सुतरामुपयोगिन एव । विस्तरार्थिभिनयचक्रमेव विलोकनीयम् । नय चक्रे तवृत्तौ च विद्यमानेष्वपि बहुषु वैशेषिकमतोल्लेखेषु यावानंश ऐतिह्यदृष्ट्योपयुक्तोऽत्र तावानेवाबोध्रियते ]
सवृत्तिके नयचक्रे विद्यमाना उल्लेखाः । [मूलम्- ] " ततोऽनुपपन्नविकल्पत्वात् सत्तासमवायस्य सत्ताद्रव्यत्वगुण- 10 स्वकर्मत्वरूपत्वादिसम्बन्धात् सद्रव्यगुणकर्मरूपादय इत्याद्यविशेषलक्षणविरोधाविरोधारम्भानारम्भादिविशेषधर्माभिधानमयुक्तं सर्ववाक्यानृतत्ववत् ।
इह प्राक् सत्तासम्बन्धात् सतां वा असतां वा सदसतां वा द्रव्यादीनां सत्करी सत्ता १ न तावदसतां सत्करी सत्ता, शशविषाणादीनामपि सत्करस्त्रप्रसङ्गात् । नापि सतां भूतत्वात् सत्तावत् प्रकाशितप्रकाशनवैयर्यवत् । सतां च पुनः सता. 15 सम्बन्धात् सच्चादनवस्थाप्रसङ्गात् । प्राक् तत् सत्तासम्बन्धात् किमात्म कमिति स्वरूपावधारणं कार्यम् , अन्यथाऽसत्त्वात् । नापि सदसताम् , ऐकात्म्यानुपपत्तेः, घटखपुष्पवत् । उभयदोषप्रसङ्गाच । यदसत् तत् खरविषाणतुल्यम् , यत् सत् तत्र सत्तासम्बन्धो व्यर्थः। 'संदसतोर्वेधात् कार्ये सदसता न' [वै० सू० ९ । १ । १२ ] इति च त्वन्मतसिद्धानुपपत्तिरेवायं विकल्पः । तस्माद् विकल्पानु. 20 पपत्तेर्न सत्तासम्बन्धोऽभिधानप्रत्य यहेतुः ।-पृ० ४५८-४५९
[वृत्तिः-] इत उत्तरमस्मादेव न्यायात् कटन्यां टीकायां च यत् पूर्वपक्षितं तदेव समर्थयितुमाह-ततोऽनुपपन्न विकल्पवादित्यादि ।...............सर्वपदार्थानां वैशेषिकीयाणां सत्तासमवायमूल विशेषात्मकत्वाद् द्रव्यादिकार्योत्पत्तिविचारप्रकृतेश्च तदेव विचार्यते तत्प्राणत्वाद् वैशेषिकीयतन्त्रस्य । -पृ० ४५८-४५९.
25 [ मूलम्- ] न, साध्ये नानभिसम्बन्धात्......असाधनत्वम् ।...नामता १ सूत्रमिदं मिथिलाविद्यापीठप्रकाशितवृत्तावुपस्कारे च नोपलभ्यते । अत्र मुद्रिते वैशेषिकसूत्र एवास्तीति ध्येयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org