SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ ॥ ॐ अहं सद्गुरुभ्यो नमः ॥ अथ षष्ठं परिशिष्टम् । जैनाचार्यश्रीमल्लवादिक्षमाश्रमणप्रणीते नयचक्रे तवृत्तौ च __ विद्यमाना वैशेषिकग्रन्थ-ग्रन्थकाराणां विशिष्टोल्लेखाः । [ पूज्यपादानन्तोपकारिगुरुदेवश्रीभुवनविजयजीमुनिराजानां कृपया साहाय्येन चास्माभिराचार्यश्रीमल्लबादिक्षमाश्रमणपणीतो नयचक्रनामा महाग्रन्थः सिंहमूरिगणिवादिक्षमाश्रमणसन्हब्धया न्यायागमानुमारिण्या वृत्त्या सह संशोधितः सम्पादितश्वास्ति । अचिरादेवायं ग्रन्थो भावनगरस्थया जैनात्मानन्दसभया प्रकाशयिष्यते । ___ अनु मल्लवादिनं तार्किकाः ' [सिद्धहेम. २ । २ । ३९] इत्यभिदधानैराचार्य10 श्रीहेमचन्द्रसूरिभिर्मल्लादिनोऽप्रतिमतार्किकत्वं स्पष्टमेवावेदितम् , अन्यैरपि च बहुभि ग्रन्थकारैः संस्तुतोऽयं महातार्किकत्वेन । मल्लवादिना तत्कालीनाः प्रायः सर्वेऽपि दार्शनिकवादाः स्वकीये महाग्रन्थे विस्तरेण समालोचिताः समन्वयं नीताश्चानेकान्तबादा श्रयणेन । ग्रन्थोऽयं द्वादशसु अरेषु विभक्तत्वाद् द्वादशारनयचक्रनाम्नापि प्रसिद्धः । प्रत्यरं पृथक् पृथग् दार्शनिकवादा उपन्यस्य परीक्षिताः । तत्र षष्ठेऽरे वैशेषिकमतस्यो. 15 पन्यासः सप्तमे चारे तन्निरसनं विस्तरेण दृश्यते । मल्लादिना भृगृकच्छनगरे राजसभायां वादं विधाय बौद्धवादी पराजित इत्येतदर्थसम्बन्धीनि कथानकानि जैनग्रन्थेषु सुप्रसिद्धानि । अत एव तस्य वादिप्रभावकत्वेन प्रसिद्धिः । तत्र प्रभाचन्द्रसूरिभिः वैकमे १३३४ संवत्सरे रचिते प्रभावकचरित्रे विजय सिंहरिप्रवन्धे मल्लवादिविजयसमयद्योतिनी कारिकेयमुपन्यस्ता20 श्रीवीरवत्सरादथ शताष्टके चतुरशीतिसंयु के [८८४] । जिग्ये स मल्लवादी बौद्धास्त व्यन्तरांश्चापि ॥ ८३ ॥ वीरनिर्वाणात् ४७० वर्षेषु व्यतीतेषु विक्रमसंवत्सरस्य प्रारम्भः, ६०५ वर्षेषु पञ्चसु च मासेषु व्यतीतेषु शकसंवत्सरस्य प्रारम्भ इति सुप्रसिद्धम् । अतः ४१४ विक्रमसंवत्सरे, २७९ शकसंवत्सरे च मल्लवादिनः स्थितिरासीदिति स्पष्टं फलितं भवति । 25 अतो मल्लवादिनः प्राचीनतरत्वात् तत्कृतवैशेषिकमताद्युल्लेखानामैतिह्यदृष्ट्या सुतरां महत्त्व. मितीदं परिशिष्टमस्माभिरारभ्यते । इदं पुनरवधेयम् । कलिकालवशाद् नयचक्रमिदानीं नोपलभ्यते । किन्तु तस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy