________________
f
5
10
15
1
१४४
दयः । इति गुणपदार्थः ।
अथ कर्मपदार्थ:-' उत्क्षेपणमवक्षेपण माकुञ्चनं प्रसारणं गमनमिति कर्माणि ' [वै० सू० ३ । १ । ६ ] । कर्मत्वयोगात् कर्म । उत्क्षेपणत्वादियोगाच्चोत्क्षेपणादयः । गमनग्रहणाच्च भ्रमण-स्यन्दन- नमनोन्नमनाद्यैवरोधः । इति कर्मपदार्थः ॥
6
सर्वसिद्धान्त प्रवेश के वैशेषिकदर्शनम् ।
सामान्यं द्विविधम् – परमपरं च ' [ प्र० भा०, पृ० १६४ ] । तत्र परं सत्ता द्रव्य-गुण-कर्मसु ' सत् सत्' इत्यनुवृत्तिप्रत्ययकारणत्वात् सामान्यमेव । यत् उक्तम्'सदिति यतो द्रव्य गुण-कर्मसु सा सत्ता ' [ वै० सू० १ । २ । ७ ] । तथाऽपरं द्रव्यत्व-गुणत्व- कर्मत्वादि । तत्र द्रव्यत्वं द्रव्येष्वेव । गुणत्वं गुणेष्वेव । कर्मत्वं कर्मस्वेव । इति सामान्यपदार्थः ।
' नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः ' [ प्र० भा०, पृ० ४ ] । नित्यद्रव्याणि च चतुर्विधाः परमाणवो मुक्तात्मानो मुक्तमनांसि च । ते चात्यन्तव्यावृत्तिर्बुद्धिहेतुत्वाद् विशेषा एव । इति विशेषपदार्थः ॥
'अयुत सिद्धानामाधार्याssवारभूतानां यः सम्बन्ध इहेतिप्रत्यय हेतुः स समवायः । ' [प्र० भा०, पृ० ५, १७१ ] इति समवायपदार्थः ।
वैशेषिकसिद्धान्ते प्रमाणं वक्तव्यमिति चेत्, तदुच्यते- लैङ्गिक प्रत्यक्षे द्वे एवं प्रमाणे, शेषप्रमाणानामत्रैवान्तर्भावात् ।
66
1
$6
८८
-
""
१वरोधनम् - B। द्यविरोध: A | तुलना- अथ विशेषसंज्ञया किमर्थं गमनग्रहणं कृतम् ? इति न भ्रमगाद्यवरो धार्थत्वात् । उत्क्षेपगादिशब्दैरनवरुद्धानां भ्रमण - पतन स्यन्दनादीनामवरोधार्थ गमनग्रहणं कृतमिति । " प्र० भा० पृ० १५३ । अनवरुद्धानाम्-असंगृहीतानाम् " - व्योमवती 20 पृ० ६६१ | २. च A नास्ति ॥ ३. इत्यनुगतप्र' A । सा चानुवृत्तेर्हेतुत्वात् सामान्यमेव " प्र० भा० पृ० ४ ॥ ४. अथा B ॥ ५. चतुर्धा B ॥ ६ व 4 नास्ति ॥ ७ चत्यित्वaar A॥ ८. त्तिप्रत्यय हे' - B। " ते च खलु अत्यन्तव्यावृत्तिबुद्धिहेतुत्वाद् विशेषा एव प्र० भा० [ व्योमवतीसमेते ] पृ० ५५ ॥ ९. इहेदं प्रत्यय B " इहेति यतः कार्यकारणयोः स समवायः " वै० सू० ७ । २ । २९ । यद्यपि मुद्रिते प्रशस्तपादभाष्ये ' इहप्रत्यय हेतु: ' इत्येव 25 पाठ उपलभ्यते, किन्तु वैशेषिकसूत्रोपस्कारे 'तदुक्तं पदार्थप्रवेशाख्ये प्रकरणे - अयुत सिद्धानामाचार्या ऽऽधारभूतानां यः संबन्ध इहेतिप्रत्यय हेतुः स समवायः [ प्र० भा० ] इति ' [ पृ० १९३ ] इति प्रशस्तपादभाव्यपाठ उद्धृतोऽस्तीति ध्येयम् ॥ १०. यद्यपि " प्रत्यक्षानुमानागमाः प्रमागानि " [ प्र० मी० पृ० ७ ] इति प्रभागमीमांसायां न्यायावतारवृत्तौ [ पृ० ९ ] स्याद्वादरत्नाकरादिषु [ पृ० ३१३, १०४१ ] च प्रमाणत्रितयं वैशेषिकसम्मतत्वेनोक्तं किन्तु सा केषाञ्चिद् व्याख्यातॄणां 30 व्याख्या परम्परा [ दृश्यताम् - व्योमवती पू० ५५४, ५८४, ५८७ ], नान्येषामिति ध्येयम् ॥
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org