________________
१४२
..
S
सर्वसिद्धान्तप्रवेशके वैशेषिकदर्शनम् । तत्र पृथिवीत्वयोगात् पृथिवी । सा च द्विधा-नित्या चानित्या च । तत्र परमाणुलक्षणा नित्या, कार्यलक्षणा त्वनित्या । सा च चतुर्दशगुणोपेता, तद्यथा-रूप-रस-गन्धस्पर्श-सङ्ख्या-परिमाण-पृथक्त्व संयोग-विभाग-परत्वा-ऽपरस्व-गुरुत्व-द्रवत्व-वगैश्चतुर्दशभिर्गु
गर्गुणवती ॥ 5 अप्त्वाभिसम्बन्धादापः' [प्र० भा० पृ० १४] । ताश्च रूप-रस-स्पर्श-सङ्ख्या
परिमाण-पृथक्त्व-संयोग-विभाग-परत्वा-उपरत्व-गुरुत्व-स्वाभाविकद्रवत्व-स्नेह-वेगवत्यः । तासु च रूपं शुक्लमेव, रसो मधुर एव, स्पर्शः शीत एव ।। ___ 'तेजस्त्वाभिसम्बन्धात् तेजः' [प्र. भा० पृ० १५] । तच्च रूप-स्पर्श-सङ्ख्या
परिमाण-पृथक्त्व-संयोग-विभाग-परत्वा-ऽपरत्व-नैमित्तिकद्रवत्व-वेगैरेकादशभिर्गुणैर्गुणवत् । 10 तत्र रूपं शुक्लं भास्वरं च, स्पर्श उष्ण एवेति ॥
'वायुत्वाभिसम्बन्धाद् वायुः' [प्र. भा० पृ० १६ ] इति । स च अनुष्णाशीतस्पर्श-सङ्ख्या-परिमाण-पृथक्त्व संयोग-विभाग-परत्वा-ऽपरत्व-वेगैर्नवभिगुणैर्गुणवान् धृति-कम्पादिलिङ्गः शब्दलिङ्गो गन्धादिवियुक्तोऽनुष्णाशीतस्पर्शलिङ्गश्चेति ।।
____ 'आकाशम् ' इति पारिभाषिकी संज्ञा, एकत्वात् तस्य । सङ्ख्या-परिमाण पृथक्त्व15 संयोग-विभाग-शब्दैः षड्भिर्गुणैर्गुणवत् शब्द लिङ्गं चेति ॥
१. नित्याऽनित्य च A । तुलना-" सा तु द्विविधा-निल्या चानित्या च । परमाणुलक्षगा नित्या, कार्यलक्षणा त्वनित्या ।" -प्र० भा० पृ०४॥ २. यद्यपि " पृथिवीत्वाभिसम्बन्धात् पृथिवी रूप-रस-गन्ध-स्पर्श-संख्या-पृथक्त्व-संयोग-विभागपरत्वा-ऽपरत्व-गुरुत्व-द्रवत्व-संस्कारवती” [प्र० भा०
पृ० ४-५ ] इति सर्वेषु वैशेषिकग्रन्थेषु · वेग शब्दस्थाने 'संस्कार' शब्दं पठित्वा चतुर्दशत्वं पृथिवी20 गुणानां वर्णितम् , तथापि संस्कारभेदेषु वेगस्यैव पृथिव्यां सम्भवाद् वेग एवात्र उपात्तो ग्रन्थकृता इति
बोध्यम् । यद्यपि 'संस्कारस्त्रिविधो वेगो भावना स्थितिस्थापकश्च ' [प्र. भा० पृ० १३६ ] इति प्रशस्तपादभाष्ये तदनुसारिषु च सर्वेष्वपि ग्रन्थेषु संस्कारभेदतया स्थितिस्थापकः परिगणितोऽस्ति, सोऽपि च पृथिव्यां वर्तते किन्तु वैशेषिकसूत्रेषु कुत्रचिदपि 'स्थितिस्थापक'सूचनानुपलब्धेरस्मिन्नपि
च सर्वसिद्धान्तप्रवेशकान्थे कुत्रचिदपि तस्यानुलखात् स्थितिस्थापको नाभिमतोऽस्य ग्रन्थकृत इति 25 प्रतिभाति । वेगो भावना चेति भेदद्वयमेव स्वीकुरुतेऽयं ग्रन्थकारः इति प्रतीयते। तथा च भावनाया
आत्मन्येव वृत्तेः परिशिष्टस्य वेगाख्यसंस्कारस्यैव पृथिव्यां वृत्तेः वेगवत्त्वमेवात्र पृथिव्या वर्णितमिति प्रतिभाति । ३. अधृति B | तुलना-"विषयस्तूपलभ्यमानस्पर्शाधिष्ठानभूतः स्पर्श-शब्द-धृति-कम्पलिङ्गः तिर्यग्गमनस्वभावो मेघादिप्रेरण-धारगादिसमर्थः ।' -प्र० भा०, पृ० १८ ॥ ४. गन्धादियुक्त: A ।
"क्षितावेव गन्धः" प्र० भा०, पृ० ११ ॥ ५. स्पर्श्वशेति A ॥ ६. “आकाश-काल-दिशामेकैकत्वा30 दपरजात्यभावे पारिभाषिक्य स्तिस्रः संज्ञा भवन्ति-आकाशः कालो दिगिति " -प्र० भा०, पृ० २३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org