SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ عين عن نمن انه من و सद्गुरुभ्यो नमः amromanianmom अथ पञ्चमं परिशिष्टम् । सर्वसिद्धान्तप्रवेशके वैशेषिकदर्शनम् । [सर्वदर्शनसिद्धान्तेषु सम्यक् प्रवेशकस्य केनचिच्चिरन्तनेन जैनमुनिप्रवरेण रचितस्य । सर्वसिद्धान्तप्रवेशकाभिधस्य तालपत्रलिखितं प्रतिद्वयं जेसलमेरनगरे जैनज्ञानभाण्डागारे विद्यते । तत्रैको प्रतिर्विक्रमसंवत् १२०१ वर्षे लिखिता, अपरा तु ततोऽपि प्राचीना प्रतिभाति । तत्र नैयायिक-वैशेषिक-जैन-सांख्य-बौद्ध मीमांसक-चार्वाकदर्शनानीति यथासङ्ख्यं सप्त दर्शनानि निरूपितानि। तेषु वैशेषिकदर्शनं यथा प्रतिपादितं तथात्रोपदर्श्यते । सर्वसिद्धान्तप्रवेशकस्य प्रतिद्वये या विक्रमसंवत् १२०१ वर्षे लिखिता प्रतिः 10 सात्र B संज्ञया व्यवहृता, या तु ततोऽपि प्राचीना सा A संज्ञया निर्दिष्टा । एवं च A-B प्रत्योर्मध्ये यान्युपयोगीनि पाठान्तराणि तान्यत्र यथायोगम् A संकेतेन B संकेतेन वोपदर्शितानि ] ___ सर्वसिद्धान्तप्रवेशके वैशेषिकदर्शनम् । " अथ वैशेषिकतन्त्रसमासप्रतिपादनायाह-द्रव्य-गुण-कर्म-सामान्य-विशेष-समवा- 15 यानां तत्त्वज्ञानान्निःश्रेयसाधिगमः । तत्र नव द्रव्याणि-' पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति द्रव्याणि ।' [ वै० सू० १ । १ । ४ ] १. अस्याः प्रतेरन्त ईदृश उल्लेख उपलभ्यते " ॥ संवत् १२०१ वर्षे ॥ माघमासीयचरमशकले तुरीयतिथौ तिमिरासहनवासरे भृगुकच्छस्थितिमता पण्डितेन यशसा सहितेन धवलेन पुस्तिकेयमलेखि ॥” । .: 20 एवं च संवत् १२०१ वर्षे माधकृष्णचतुझं रविवासरे भृगुकच्छे यशोधवलाभिधेन पण्डितेन पुस्तिकेयं लिखितेति प्रतिभाति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy