________________
60459054
an2 द्वितीयं परिशिष्टम्। अत्र मुद्रितस्य 0. P. PS. अनुसारिसूत्रपाठस्य सम्भावितेन मि.वृत्तिकृदभिमतसूत्रपाठेन सह तुलना । [इदमत्रावधेयम्-मि.शब्देन बिहार प्रदेशे दरभंगानगरस्थेन मिथिलाविद्यापीठेन २०१३ विक्रमाब्दे 5 प्रकाशिता वैशेषिकसूत्रवृत्तिरत्राभिप्रेता। तस्याः को रचयिता इति तु न ज्ञायते तथापि सा वृत्तिरुपस्कारात् प्राचीना चन्द्रानन्दरचितवृत्तेश्चार्वाचीनेति निश्चितमेव प्रतीयते । मलय लिपिनिबद्धां तालपत्रलिखितां प्रन्थपातबहुलामेकामेव मातृकामवलम्ब्य मिथिलाविद्यापीठप्राध्यापकैः श्रीमद्भिरनन्तलाल. देवशर्मभिः सा वृत्तिः सम्पादिता। मातृकायां ग्रन्थपातबाहुल्यात् सम्पादकेन महता परिश्रमेग ग्रन्थसंशोधनं खण्डितपाठपूरणादिकं च विहितम् । किञ्च, मातृकायां सूत्रपाठः पृथग् नैवास्ति, वृत्तिरेव 10 विद्यते, तत्र च बहुतरः सूत्रपाठो मातृकायां वृत्त्या मिश्रित एव वर्तते, अतः सम्पादकेन प्रतीकाद्यवलम्ब्य सूत्रपाठोऽपि महता परिश्रमेण वृत्तेः पृथकृत्वा मुद्रितः, सम्पादकेन यः सूत्रपाठः सम्भावितः प्रायः स एव बहुषु स्थलेष्वत्रास्माभिरुपदर्शितः, किन्तु सन्ति कानिचित् स्थलानि यत्र सूत्रपाठनिर्णयेऽस्माकं 'विमतिः। यतो मि.वृत्तौ यद्यपि बहुतरः सूत्रपाठो मिश्रितो वर्तते तथापि कतिचित् सूत्राणि मातृकायां: परिगलितानि, कतिपयानि मि.वृत्तावव्याख्यातानि, केषाञ्चित् सूत्रागां मि. वृत्तौ केवला व्याख्यैव विद्यते. 15 कानिचिच्च सूत्राणि व्याख्यासौकर्यार्थ क्वचित् क्वचिदितस्ततः शब्दक्रमादिपरिवर्तनं विधाय कांश्चिच्च शब्द न पूरयित्वा मि. वृत्तावुपन्यस्तानि । तस्मात् सम्पूर्णः सूत्रपाठो मि. वृत्त्यनुसारेण यथावन्निणेतुं न शक्यते । अतस्तादृशेषु स्थलेषु मि. पुस्तकेऽमुद्रितोऽपि सूत्रपाठो यथास्माभिः सम्भावितस्तथैवात्र मि वृत्तिकृदभिमततया सम्भाविते सूत्रपाठेऽस्माभिरुपन्यस्तः सूत्राङ्काश्च परिवर्तिता इति ध्येयम् ।] ...१ वैशेषिकसूत्रस्योपरि केनचिद् विदुषा विरचिता व्याख्या मिथिलावि पीठेन प्रकाशितास्ति । 20 तत्र च सूत्रपाठे यत्र यत्र साम्यं वैषम्यं न्यूनाधिकत्वं वा दृश्यते तदेतस्मिन् परिशिष्टे प्रदर्श्यते। इदं तु ध्येयम्-यत्र यत्र - एतादृशं चिह्न विहितं तत्र तत्र तत्तत् सूत्रं नास्तीति ज्ञेयम् । यत्र न कश्चिदु" विशेषो दर्शितस्तत्र तत् सूत्रं मि. वृत्तावत्र मुद्रितेन सूत्रपाठेन तुल्यमेव विद्यत इत्यवगन्तव्यम् । २ अत्र मुद्रिते 0. P. PS. अनुसारिसूत्रपाठेऽपि O. P. PS. मध्ये परस्परं भिन्नाः केचन पाठभेदाः सन्ति। ते च वृत्तिसहिते तत्र तत्र सूत्रेऽधस्तात् टिप्पण्यामस्मामिदर्शितास्तत्रैवावलोकनीयाः । 25 मि. वृत्तिकृदभिमतसूत्रपाठात् 0. P. PS. अनुसारी वैशेषिकसूत्रपाठोऽतिप्राचीन इत्यपि ध्येयम् । ३ मि. वृत्त्यनुसारेण सूत्रपाठनिर्णये यद् विमत्यास्पदत्वं काठिन्यं च वर्तते तस्य व्यावर्णनं मि.वृत्तिसम्पादकैः श्रीमद्भिरनन्तलालदेवशर्मभिरपि मि. वृत्तेः प्रस्तावनायामित्थं विहितम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org