________________
अजाते तु -
दशमोऽध्यायः ।
संयोगाद्वा | १० | १३ ।
जनिष्यमाणेऽपि कार्ये तन्त्वादीनां परस्परेण संयोगादस्य पटं प्रति तेषु कारणबुद्धिरुत्पद्यते ।
७५
कारणसमवायात् कर्मणि । १० । १४ ।
संयोगविभागेषु निरपेक्ष कारणत्वात् तत्कारणद्रव्ये समवेतत्वात् कर्मोत्पन्नमात्रमेव कारणबुद्धिं जनयति ।
इदानीं गुणेषु -
तथा रूपे कारणकारणसमवायाच्च । १० । १५ । कार्यरूपस्य समवायिकारणे पटादौ यत् समवायिकारणं तन्तवस्तेषु कारणकारणेषु 10 समवेतत्वात् कारणं रूपादय इत्युच्यन्ते, 'च' शब्दादनुत्पन्नेऽपि कार्यरूपे कारणबुद्धिः ।
कारणसमवायात् संयोगे । १० । १६ ।
कार्यस्य पटादेः समवायिकारणेषु तन्त्वादिषु समवेतत्वात् संयोगे द्रव्यं प्रति कारणबुद्धिः ।
गुणकर्मारम्भे तु
तथा कारणाकारणसमवायाच्च । १० । १७ ।
कारणे घटेsकारणे चाग्नावनिसंयोगः समवेतत्वात् कारणं पाकजानाम् । अभिघात्ये कर्मकारणेऽभिहन्तरि चाकारणे समवेतत्वाद् वेगवद्रव्यसंयोगः कर्मणः कारणम् ।
पाकजारम्भे तु—
संयुक्तसमवायादग्ने वैशेषिकम् । १० । १८ ।
अणूनां पाकजरूपाद्यारम्भेऽणुभिः संयुक्तेऽमौ समवेतमुष्णस्पर्शं वैशेषिकं गुणमपेक्षते संयोगः । द्रव्यं वर्जयित्वाऽन्यत्र संयोगः सापेक्षः कारणम् ।
Jain Education International
१ द्रव्यसमवे° O. । २ कार्यस्य रूपस्य 0. । ३ कार्यगुणा रूपादय O. । ४ तथा 0. P. उ. मध्ये नास्ति । ५ कर्मकारणे अभिहन्तरि च कारणसमवेतत्वाद् P. । ६ वैशेषिकगुण O.
। कर्मकारणे समवेतत्वाद्
For Private & Personal Use Only
5.
15
20
25
www.jainelibrary.org