________________
७४
चन्द्रानन्दविरचितवृत्त्यलङ्कृते वैशेषिकसूत्रे • अभूताद् विनष्टादित्यर्थः । पाणिपादग्रीवादीनवयवान् विभक्तानुपलभ्य विनष्टादसमवायिकारणात् संयोगाद् विनष्टे कायें अभूत् कार्य शरीराख्यम्' इति जायते बुद्धिः । विनश्यति पुनः
___ सति च कार्यासमवायात् । १०।९। 5 सति संयोगे 'च'शब्दादसति, घातकादिविनाशकारणव्यापारेऽपि केषाञ्चिद् ग्रीवाद्यवयवानामनिवृत्ते संयोगे विभागाच्च पाण्यादीनां विनिवृत्ते कार्यस्य शरीरादेरसमवायाद् विनाशकारणाघ्रातत्वेन प्रचलितत्वाद् विनष्टाविनष्ट संयोगालोचनेन 'कार्य नश्यति' इति ज्ञानमुत्पद्यते। अन्ये तु 'अभूत् कार्यम्' इति व्याचक्षते, तेदयुक्तं तदभिप्रायेणैव
कार्यस्य विनष्टत्वात् । 10 एषा च बुद्धिःएकार्थसमवायिषु कारणान्तरेषु दर्शनादेकदेश इत्येकस्मिन् । १०।१०।
शरीरादौ क्वचिदेकस्मिन्नर्थे यदा पाण्यादयोऽवयवाः समवायिन उपलब्धाः, अथास्य तेषु एकदेशबुद्धिरुत्पन्ना, इदानी तान् विभज्य विभक्तानुपलभ्य एतस्मिन्नेकदेशिनि
'अभूत कार्यम् ' इति ज्ञानोत्पत्तिः । 15 के तेऽत्रयवा इत्याह
शिरः पृष्ठमुदरं पाणिरिति तद्विशेषेभ्यः । १० । ११ । स्वसामान्यविशेषेभ्यः शिरस्त्वादिभ्यो येषु ज्ञानं जायते [ ते ] शिरआदयोऽवयवा इत्यर्थः । कारणबुद्धिस्तु
कारणमिति द्रव्ये कार्यसमवायात् । १० । १२ । कार्य द्रव्यं गुणान् कर्म वा समवेतं द्रव्ये पश्यतो ' द्रव्यं कारणम्' इति मुख्या बुद्धिः, कार्यस्य जातत्वात् ।
20
... १ अभूतात् कार्य शरीराख्यम् P. । अभूत् कार्याख्यं शरीरम् 0.। २ तदपि युक्तं तथाहि(तदमि?). ___प्रायेणैव 0.। ३ ( कार्यस्याविनष्टत्वात् ? )। ४ इत्येतस्मिन् P.। ५ तद्विभक्तानुपलभ्य ते देशिनि
अभूत् कार्यमिति ज्ञानोत्पत्ते: 0. । ६ (एकस्मिन्नेकदेशिनि ?) । ७ शिरआदिभ्यो 0.। ८ द्रव्यं 0. । ९ द्रव्यगुणाः कर्म वा P.। द्रव्यं द्रव्यगुणाः कर्म वा 0.। (द्रव्यगुणौ कर्म वा ?)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org