SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ दशमोऽध्यायः । ७३ यथा स्मृतिमत आत्मनः प्रत्यक्षं लिङ्गं दृष्ट्वा अप्रत्यक्षे ज्ञानमुत्पद्यते तथैव सामान्यमात्रदर्शनात् स्मृतिमतो विशेषं जिज्ञासोरगृहीते विशेषे 'स्थाणुः पुरुषो वा' इति जायते संशयः । यथा च भूतार्थसम्बन्धवशेन 'अयमेवंभूतोऽर्थ:' इति प्रत्यक्षमुत्पद्यते तथैव विशेषसम्बन्धवशेन निवृत्ते संशये ' इदमेवंभूतम्' इति निर्णयो जायते । इदानीं कार्यकारणबुद्धी निरूपयति भूतमिति प्रत्यक्षं व्याख्यातम् | १० | ५ | स्वकारणेभ्य उत्पन्ने कार्ये भूतं निष्पन्नमिदं कार्यमिति कार्यज्ञानम्, 'विशेषणज्ञानाद् विशेष्यज्ञानम्' इति न्यायेन तद् व्याख्यातम्, तच्च मुख्यम् । अन्यत्र त्वौपचारिकं कार्याभावात् । तथाहि – निष्पत्स्यमाने कार्ये भविष्यतीति कार्यान्तरे दृष्टत्वात् । १० । ६ । 10 यथाभूतायाः सामग्र्या अनन्तरं पटादि कार्यमुत्पन्नं दृष्टं तथाभूत सामग्रीदर्शनादि - दानीमनुत्पन्नेऽपि कार्ये कार्यशब्दमुपचर्य 'भविष्यति कार्यम्' इति जायते कार्यबुद्धिः । निष्पद्यमानेऽपि - 4 तथा भवतीति सापेक्षेभ्योऽनपेक्षेभ्यश्च । १० । ७ । यदा प्रस्तारितांस्तन्तून पूर्वपूर्वसंयोग | पेक्षा नुपलभमानः पश्चात् पश्चादुत्तरोत्तरतन्तु 15 संयोगे सति अनपेक्षानुपलभते तदास्य पट्टिकाद्येवान्तरं कार्यं पश्यत उत्पद्यमाने कार्यद्रव्ये निष्पन्नानिष्पन्नसंयोगपर्यालोचनया 'भवति कार्यम्, उत्पद्यते कार्यम्' इति जायते बुद्धिः । यथा चोत्पत्तौ एवं विनाशेऽपि प्रयत्नानन्तरोत्पत्तीनां घटादिद्रव्याणां विनाशे 'अभूत्' इति प्रत्ययस्य 'भूतप्रत्यक्षाभावात् ' [ ९ । ६ ] इत्यादिना कथितत्वादिदानीं पारिणामिके शरीरादौ कथ्यते । तत्र विनष्टे - अभूदित्य भूतात् | १० | ८ | 5 Jain Education International १ भूता । ( सद्भूता ? ) । २ प्रत्यक्षमाख्यातम् । ३ उत्पन्ने ज्ञाने भूतं 0. । (c ४ निष्पद्यमाने कार्ये 0. । ५ न्तरदृष्टत्वात् PS. ६0 मध्ये नास्ति । ७ तथा भवति सापे O. P. तथा भवतीति सापेक्षेभ्यो निरपेक्षेभ्यश्च इति प्रशस्तपादभाष्ये संयोगनिरूपणे । ८ यदा प्रस्तारिताः शून्य ( रितांशून् ? ) पूर्वपूर्वसंयोगा P. । यदप्रसूरितं तद्भूत पूर्वं 25 पूर्वपूर्वसंयोगा वान्तकार्यम् P. । ९ १० For Private & Personal Use Only "" 20 www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy