________________
देशमोऽध्यायः। बुद्धिप्रसङ्ग एवापर्यवसिते सुखदुःखबुद्धयोरालम्बने सुखदुःखे च कथयति । तथाहि-'सुखदुःखमोहमयानि भूतानि' इत्याहुः । तदयुक्तम् ।
आत्मसमवायः सुखदुःखयोः *पश्चभ्योऽर्थान्तरत्वे हेतुस्तदा5 अयिभ्यश्च गुणेभ्यः । १० । १ ।
___ आत्मन्येव यः समवायः सुखदुःखयोरसौ पञ्चभ्यः क्षित्यादिभ्यस्तदायिभ्यश्च गुणेभ्यो गन्धरसरूपस्पर्शेभ्योऽर्थान्तरत्वे हेतुः, अन्यगुणानामन्यत्रासमवार्यात् । आत्मसमवायश्चैतयोरहङ्कारेणै कवाक्यभावात् ।
आत्मसमवायित्वेऽपि10 इष्टानिष्टकारणविशेषाद विरोधाच मिथः सुखदुःखयोरर्थान्तरभावः।१०।२।
स्त्रयादिकारणजन्यं सुखम् । विषादिकारणजन्यं दुःखम् । परस्परविरुद्धे च सुखदुःखे, अन्योन्यविनाशेनोत्पत्तेः । अतोऽनयोर्भेदः, नैकत्वमेकार्थसमवायात् ।
संशयनिर्णयौ परस्पराभावमात्रम् , न वस्तुसन्ताविति चेत् , न, 15 संशयनिर्णययोरर्थान्तरभावश्च ज्ञानान्तरत्वे हेतुः । १० । ३ ।
अर्थान्तरात् परस्परविलक्षणात् कारणाद् भाव उत्पत्तिः संशयनिर्णययोः । तथाहिविशेष जिज्ञासोरगृहीतविशेषस्य सामान्यालोचनात् संशयो जायते । संशयात् परतः प्रमाणान्तरेण विशेषग्रहणात् — स्थाणुरेवायम् ' इति निश्चयः । यदि चैतौ न वस्तुसन्तो
भवेतां नैतौ विलक्षणकारणाभ्यामुत्पद्येयाताम् । अतो ज्ञानान्तरभूतौ संशयनिर्णयौ 20 परस्परतः, निर्णयस्तु प्रत्यक्षानुमानाभ्यां न भिद्यत इति केचित् । तयोनिष्पत्तिः प्रत्यक्षलैङ्गिकाभ्यां ज्ञानाभ्यां व्याख्याता । १० । ४ ।
१0. P. PS. मध्येऽस्मिन्नध्याये आह्निकविभागो नास्त्येव । २ बुद्धिप्रसंगा एगापर्यवसिते। 'बुद्धिप्रसङ्गे पर्यवसिते' इत्यपि पाठोऽत्र समीचीनो भवेत् । ३ "म्बनसुखदुःखे P.। (म्बनं
सुखदुःखे ? )। ४ श्रयिभ्यो गुणेभ्यः 0.। ५ वायः 0.। ६ विषादिकारणजन्यं दुःखम् 25 P. मध्ये नास्ति । ७ मात्रेणावस्तुसन्ताविति 0.। ८ भावः ज्ञाना° 0.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org