________________
नवमोऽध्यायः ।
विशिष्टादधर्मापेक्षादतस्मिंस्तदिति ज्ञानं यथा शुक्तिकायां रजतमिति । अनध्यवसायो
यथा दाक्षिणात्यस्योष्टदर्शने ।
तद् दुष्टं ज्ञानम् । ९ । २६ ।
यदेतत् संशयविपर्ययानध्यवसायस्वप्नलक्षणं तद् दुष्टमप्रमाणमिति । अदुष्टं विद्या । ९ । २७ ।
यददुष्टं प्रत्यक्षानुमानाख्यं तद्विथेत्युच्यते ।
आर्षं सिद्धदर्शनं च धर्मेभ्यः । ९ । २८ ।
तत्र यल्लिङ्गनिरपेक्षमतीतानागतवर्तमानेषु धर्मादिष्वतीन्द्रियेषु ग्रन्थैरनुपातेषु देवर्षीणां यत् प्रातिभमुत्पद्यते विज्ञानं लौकिकानां कदाचिदेव 'वो मे भ्राता आगन्ता, हृदयं मे कथयति' इति अनवधारणफलं केवलं तर्केण नीयते तदार्षमित्युच्यते । अञ्जनरसायनादि 10 सिद्धानां तु सूक्ष्मव्यवहितविप्रकृष्टार्थविषयं यद्वा दिव्यान्तरिक्षा दिनिमित्तेभ्यः प्राणिनां धर्माधर्मविपाकपरिज्ञानं तत् सिद्धदर्शनम् । तच्च प्रत्यक्षानुमानाभ्यां न भिद्यते, आर्षं भिद्यत इति वर्णयन्ति । तदेतदार्षं सिद्धदर्शनं च विशिष्टाद् धर्मादात्ममनः संयोगाच्चोत्पद्यते ।
॥ इति नवमोऽध्यायः ॥
१ धर्मेभ्यः । नवमोऽध्यायः PS. ।
Jain Education International
७१
For Private & Personal Use Only
5
www.jainelibrary.org
15