________________
10
अस्येदमिति बुद्धयपेक्षत्वात् । ९ । २१ ।
यथा ' अर्थस्यै प्रतिपत्तावियं हस्तचेष्ठा कारणं प्रतिपत्तव्या ' इति वृत्तसङ्केतः तां 5 हस्तचेष्टां दृष्ट्वा ततः शब्दात् कारणादर्थं प्रतिपद्यते एवम् ' अस्यार्थस्य प्रतिपत्तावयं शब्दः कारणम्' इति प्रसिद्धसङ्केतस्ततः शब्दात् कारणादर्थं प्रतिपद्यते, यथा अभिनयादेरपि अर्थ प्रतिपद्यन्ते लौकिका एवं शब्दोऽर्थस्य सङ्केतवशेन व्यञ्जकत्वात् कारण - मिति वृत्तिकारः । एवमुपमा [ना] दीनामन्तर्भावः । एवं द्वे एव प्रमाणे । प्रमाणत्वं च प्रमीयतेऽनेनेति प्रमाणं प्रमा प्रमाणमिति वा ।
15
चन्द्रानन्दविरचितवृत्त्यलङ्कृते वैशेषिकसूत्रे
हेत्वादिशब्दैस्तात्पर्येण कारणं कथयति । हेतुरपदेशः कारणमित्यर्थः । एवं शब्दः कारणं सदर्थस्य प्रतिपत्तौ लिङ्गं कुत इति चेत्,
20
७०
अनुमानाङ्ग स्मृतिरुच्यते
आत्ममनसोः संयोगविशेषात् संस्काराच स्मृतिः । ९ । २२ । अभ्यर्थिनो धूमदर्शनं यदुत्पन्नं तदपेक्षादात्मान्तःकरणसंयोगाद् विशिष्टाञ्च भावनाख्यसंस्काराद् 'यत्र धूमस्तत्राग्निः' इति स्मृतिरुत्पद्यते ।
तथा स्वप्नः स्वप्नान्तिकं च । ९ । २३ |
उपरतेन्द्रियस्य प्रलीनमनस्कस्यान्तः करणेनैव ज्ञानं स्वप्नः, स्वप्नेऽपि स्वप्नज्ञानं स्वप्नान्तिकम्, तदुभयं पूर्वप्रत्यय | पेक्षा दात्ममनः संयोगविशेषाद् भावनासहायादुत्पद्यते । धर्माच्च । ९ । २४ ।
अननुभूतार्थविषयमपि स्वप्नज्ञानं शुभाशुभसूचकं धर्मात् 'च' शब्दादधर्माच्चेति । जाग्रतस्तु -
इन्द्रियदोषात् संस्काराचाविद्या * । ९ । २५ | वातादिदोषेणोपहतेन्द्रियस्य पूर्वरजतानुभवजनितात् संस्कारादात्ममनः संयोगाच्च
१ एवं शब्दकारणसमर्थस्य 0. । ( एवं शब्दः कारणमर्थस्य ? ) । २ अर्थस्यार्थस्य O. । अत्र 'अस्यार्थस्य ' इत्यपि पाठः समीचीनो भाति । ३ दृष्ट्वा सर्वत्र समर्थ प्रतिपद्य एवम् । ४ प्रसिद्धसंकेतात्ततश्चब्दात् । ५ तथा स्वप्नस्वप्नान्तिकम् PS तथा स्वप्नः स्वप्नेऽपि स्वप्नज्ञानं 25 स्वप्नान्तिकं च P तथा स्वनः स्वप्नान्तिकम् उ । ६
विद्या इत्यत आरभ्य पञ्चभ्यो*
[ १० | १ ] इत्यन्तः पाठः 0 मध्ये नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org