SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ आ .. नवमोऽध्यायः । किञ्च आत्मेन्द्रियमनोर्थसन्निकर्षाच । ९ । १५ । सूक्ष्मव्यवहितविप्रकृष्टेष्वर्थेषु तेषां चतुष्टयसन्निकर्षादपि प्रत्यक्षं जायते । तथास्मदादिप्रत्यक्षेषु । तत्समवायात् कर्मगुणेषु । ९ । १६ ।। यथाऽन्तःकरणसंयोगाद् द्रव्यान्तरेषु ज्ञानमुत्पद्यते तथैव तद्व्यसमवेतेषु कर्मगुणेषु ज्ञानमुत्पद्यते । यथा च चतुष्टयसन्निकर्षात् सूक्ष्मादिष्वस्मत्प्रत्यक्षेषु च ज्ञानं तथैव . तत्समवेतेषु गुणकर्मसु ज्ञानमुत्पद्यते संयुक्तसमवायात् । आत्मसमवायादात्मगुणेषु । ९ । १७ । यथात्ममनःसंयोगात् स्वस्मिन्नात्मनि ज्ञानं तथैव स्वात्मसमवेतेषु सुखादिषु ज्ञानमुत्पद्यते ।10 योगिप्रत्यक्षं व्याख्यायानुमानं व्याचष्टे अस्येदं कार्य कारणं सम्बन्धि एकार्थसमवायि विरोधि चेति लैङ्गिकम् । ९ । १८। ___ अस्येदमिति सम्बन्धमानं दर्शयित्वा कार्य कारणम्' इत्यादिना विशिनष्टि । 'कार्यकारण' ग्रहणेन समवायिमात्रोपलक्षणाज्जात्यादेरपि ग्रहणम् ; 'सम्बन्धि'शब्देन 15 संयोगिनो ग्रहणं धूमादेः । अन्य व्याख्यातं संयोग्यादिसूत्रे । तत्र ‘एवंविधप्रसिद्धसम्बन्धस्याथै कदेशमसन्दिग्धं पश्यतः शेषानुव्यवसायो यः स लिङ्गदर्शनात् सञ्जायमानो लैङ्गिकम्' इति वृत्तिकारः। एतेन शाब्दं व्याख्यातम् । ९ । १९ । यथा कार्यादिस्मृतिसव्यपेक्षमनुमानं त्रिकालविषयमतीन्द्रियार्थ च तथैव शाब्दं । सङ्केतस्मृत्यपेक्षं त्रिकालविषयमतीन्द्रियार्थं च । अतोऽनुमानेनैकयोगक्षेमत्वादनुमानमेवेत्युक्तं भवति । ___ कः शब्दोऽर्थस्य चेत् , तदुच्यतेहेतुरपदेशो लिङ्गं निमित्तं प्रमाणं कारणमित्यनन्तरम् । ९ । २० । १ च विज्ञानं तथैव तत्समवेतेषु सुखादिषु 0.। २ दृश्यताम् ३ । १। ८ । ३ साध्यं 25 व्याख्यातम् P. P.3.। शब्दो व्याख्यातः 0.। ४ कालादिस्मृति° 0.। ५ "रपदेशो निमित्त लिङ्गं प्रमाण--नयचक्रवृत्ति पृ० ६५ । °रपदेशो लिङ्गं प्रमाणं उ.।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy