________________
चन्द्रानन्दविरचितवृत्त्यलङ्कृते वैशेषिकसूत्रे
अन्यत्र तुनास्ति घटो गेह इति सतो घटस्थ गेहसंयोगप्रतिषेधः।९।१०। ___नास्ति घटोऽस्मिन् देशे काले वेति देशादिनिषेधो घंटादेः, न स्वरूपतो निषेधः क्रियत इति । 5 नास्त्यन्यश्चन्द्रमा इति सामान्याचन्द्रमसः प्रतिषेधः । ९ । ११ ।
'नास्ति द्वितीयश्चन्द्रमाः' इति सङ्ख्याप्रतिषेधेन सामान्याचन्द्रत्वाख्याचन्द्रमा निवर्त्यते इति कृत्वा चन्द्रत्वं सामान्यं नास्तीत्युक्तं भवति । देश-काल भाव सामोपाधीनाममावे तदत्यन्तासत एव प्रभेदश्चन्द्रत्वसामान्यनिषेध इति वर्णयन्ति ।
सिकताभ्योऽनुत्पतेर्दधनः क्षीराच्चोत्पत्तेः प्रत्यक्षेण चाग्रहणात् सदसत् कार्य कारणे । 10 सदसतोवैधात् कार्ये सदसत्ता न । ९ । १२ ।
सत्त्वासत्त्वयोर्युगपद्विरुद्धत्वान सदसत् कार्य कारणे। तस्मादसदेव । प्रत्यक्षपरोक्षविषयत्वाद् योगिप्रत्यक्षं प्रत्यक्षानुमानयोर्मध्ये व्याख्यायतेआत्मन्यात्ममनसोः संयोगविशेषादात्मप्रत्यक्षम् । ९ । १३ ।
आहृत्य विषयेभ्य इन्द्रियाणि तेभ्यश्च मन आत्मन्येव यदा समाधीयते तदा 15 योगजधर्मापेक्षादात्मान्तःकरणसंयोगाद् विशिष्टात् तत्रभवतां स्वस्मिन्नात्मनि ज्ञानं प्रत्यक्षमुत्पद्यते ।
तथा द्रव्यान्तरेषु । ९।१४ । प्रतिषिद्धात्मसंयोगेषु व्यापकद्रव्येष्वात्मनाऽसंयुक्तेषु अप्रतिषिद्धात्मसंयोगेषु च परमाण्वादिषूभाभ्यां संयुक्तेषु ज्ञानमुत्पद्यते।
on १ घटादेः स्वरूपतो निषेधः क्रिय इति P.। २ चन्द्रमसिः प्रतिषेधः PS. । चन्द्रमा इति
सामान्याचन्द्रमसि निषेधः P.। अयं P. पाठोऽपि समीचीनो भाति । श्चन्द्रमा इति सामान्यचन्द्रमस्यनिषेधः 0.। उ. मध्ये नास्त्येवेदं सूत्रम् । तुलना-" यथा नास्त्यन्यश्चन्द्रमा इति द्वितीयचन्द्राभावादनन्योऽयमेवेति सामान्यात् प्रतिषिध्यते चन्द्रमास्तथा नास्ति घटो गेहे मृत्पिण्डे
कपालावस्थायां वेत्यादीन्यसत्त्वानि सविशेषगानि ।”-नयचक्रवृत्ति. पृ० ४३५। ३ देशकालसाम25 र्योपाधी० ०। ४ तादि(दे ?)रनुत्पत्ते° 0. । ५ प्रत्यक्षेगाग्रहगात् 0.। ६ उद्धृतमिदं सूत्रं
नयचक्रवृत्ती पृ० ४६० पं० ७, पृ. ४९. पं० १० । उ. मध्ये नास्त्येवेदं सूत्रम् । ७ दात्मनि प्रत्यक्षम् 0.। ८ तथा P. मध्ये नास्ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org