SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ नवमोऽध्यायः। इदानीमनुमानं व्याचिख्यासुस्तस्य विषयं दर्शयति क्रियागुणव्यपदेशाभावादसत् । ९ । १ ' न तावत् कार्य प्रागुत्पत्तेः प्रत्यक्षेण गृह्यते । नाप्यनुमानेत, सति लिङ्गे तस्य 5 भावात् , लिङ्गाभावश्च तदीययोः क्रियागुणयोरनुपलब्धेः, न चान्यद् 'पपदेश'शब्दसूचितं लिङ्गमस्ति । तस्मात् प्रागुत्पत्तेरसत् । पश्चात् सदसत् । ९।२। सद्भूतं च कार्य प्रध्वस्तमुत्तरकालमसदेव, नै सतस्तिरोधानं क्रियागुणव्यपदेशा10 भावादेव । मध्ये तुअसतः सत् क्रियागुणव्यपदेशा(श ?) भावादर्थान्तरम् । ९ । ३ । प्रध्वंसात् पूर्वमुत्पत्तेरुत्तरकालमसतोऽर्थान्तरभूतं वस्तु 'सत्' इत्युच्यते क्रियागुण. व्यपदेशानां भावात् । सचासत् । ९।४। सदपि वस्तु भावान्तरनिषेधेन गौरश्वो न भवतीति, कार्याकरणेन नायं गौर्यो न वहति 'असत्' इत्युपर्यते । यच्चान्यत् सतस्तदप्यसत् । ९ । ५। सतश्च वस्तुनो यदन्यदत्यन्ताभावरूपं प्रागुपापिध्वंसाभावाविषयं शशविषाणादि 20 तदप्यसदेव । असतामविशेषात् प्रागसति कथं कारकप्रवृत्तिर्नान्यत्रेति चेत्, न, विशेषग्रहणात् । 15 १०. P. PS. मध्येऽस्मिन्नध्याय आह्निकविभागो नास्ति । २ वात्तस्यासत् 0. । वात्प्रागसत् उ. । ३ न सत् न तिरोधानं O.। ४ असतः क्रियागुगव्यपदेशाभावादर्थान्तरम् उ.। असति क्रियागुणव्यपदेशाभावादर्थान्तरम् मिः । ५ व्यपदेशाभावात् 0 । ६ प्रध्वंसाविषयं 0.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy