SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ अष्टमोऽध्यायः । भूयस्त्वम् । भूयस्त्वं च त्राणे पृथिव्याः पादादिना गन्धोपलब्ध्यभावात् । गन्धवत्त्वाच्च, यतश्च स्वसमवायिना गन्धेन प्राणेन्द्रियं गन्धमभिव्यनक्त्यतस्तस्य गन्धवती पृथिव्थेव कारणम्, भूतान्तराणि तु संयोगीनि स्वल्पान्येव । तथापस्तेजो वायुश्च रसरूपस्पर्शज्ञानेषु रसरूपस्पर्शविशेषादिति । ८ । १७ । स्वसमवायिना धुरापाकजेन रसेन रूपेण शुक्लभास्वरेण स्पर्शेन अपाकजानुष्णाशीतेन यतो रसन- नयन-स्पर्शनानि रस-रूप- स्पर्शानभिव्यञ्जन्त्यतो रसवत्त्वाद् रूपवत्त्वात् स्पर्शवत्त्वाच्च भूतान्तरैर्निमित्तैरनभिभूतत्वेन भूयस्त्वाच्च त्रिष्विन्द्रियेषु यथासमयमापस्तेजो वायुश्च समवायिकारणानि द्रष्टव्यानि । आकाशं तु स्वत एव श्रोत्रं कर्ण. शष्कुयैवच्छिन्नं न प्रकृतिरनारम्भकत्वात् । एवं प्रत्यक्षं व्याख्यातम् । || अष्टमोऽध्यायः ॥ Jain Education International ६५ १ वायुश्च रसरूपस्पर्शेषु रसरूपस्पर्शविशेषात् PS. । वायुश्च रसरूपस्पर्शेषु रसरूपस्पर्शादिति O. । बायुश्च रसरूप[स्पर्श ]ज्ञानेषु रसरूपस्पर्शात् मि. । वायुश्च रसरूपस्पर्शाविशेषात् उ० । २ मधुररसेन O. । ३ रसना° O. । ४ आकाशे तु स्वत एव श्रोत्रे 0. । ५ व्यावच्छिन्नं न प्रकृति P. । व्यवच्छिन्नं प्रकृति 0. ९ For Private & Personal Use Only 5 www.jainelibrary.org 10 15
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy