________________
चन्द्रानन्दविरचितवृत्त्यलते वैशेषिकसूत्रे कार्यकारणभावो विशेषणविशेष्यताऽभावादित्यस्य पूर्वोक्तस्य कारणस्याविशेषात् । अतो द्रव्यज्ञानं न गुणकर्मबुद्धयोः कारणम् , गुणकर्मबुद्धी अपि न परस्य कारणम् ।
विशेषणन्यायाभावे तु
अयमेष कृतं त्वया भोजयनमिति बुद्धयपेक्षम् । ८। १२ । 5 'अयम्' इति सन्निकृष्ट 'एषः' इति च किश्चिद्विप्रकृष्ट प्रत्ययः, 'कृतं त्वया' इति
कर्मकर्तृप्रत्ययो(यो), 'भोजयैनम्' इति कर्तृकर्मप्रत्ययो । सन्निकृष्टापेक्षो विप्रकृष्टे प्रत्ययः, 'कृतम्' इति कर्मापेक्षः कर्तरि, 'भोजय' इति कञपेक्षः कर्मणि । कुतः सापेक्षा इति चेत्,
दृष्टेषु भावाददृष्टेष्वभावात् । ८ । १३ । 10 दृष्टेषु सत्सु यतः सन्निकृष्टादिषु विप्रकृष्टादिप्रत्यया भवन्ति नादृष्टेषु*, अतः सापेक्षा अपि सन्तो न कार्यकारणभूता विशेषणविशेष्यत्वायोगात् । बुद्धीनामर्थेन्द्रियापेक्षत्वेऽप्यर्थस्तावदुच्यते
अर्थ इति द्रव्यगुणकर्मसु । ८ । १४ । विनाप्यर्थत्वेन सामान्येन त्रिष्वेव द्रव्यादिषु तत्र प्रसिद्धया 'अर्थ'शब्दः परि15 भाष्यते । केव ! यथा सामान्यविशेषेषु विना सामान्यान्तरेण यथा सत्तादिषु सामा.
न्येषु 'सामान्यं सामान्यम्' इति ज्ञान तथा विशेषेषु विशेषान्तराभावेऽपि विशेषो विशेषः' इति तद्दर्शिनां विज्ञानमेवं द्रव्यादिषु विनाप्यर्थत्वेन पारिभाषिकोऽर्थशब्दः । इन्द्रियाण्युच्यन्ते, तानि च न पञ्चात्मकानि, यतः
द्रव्येषु पश्चात्मकं प्रत्युक्तम् । ८ । १५ । 20 यतो द्रव्येष्वारब्धव्येषु पञ्चभूतान्यारम्भकाणि न विद्यन्ते, अपि तु यान्यारभन्ते __ चत्वारि तानि स्वां स्वां जातिमारभन्ते । एवमिन्द्रियाण्यपि प्रतिनियतभूतकार्याणि, तथाहि
भूयस्त्वाद् गन्धवत्वाच्च पृथिवी गन्धज्ञाने। ८ । १६ ।
गन्धज्ञानं घ्राणम् , तस्मिन्नारब्धव्ये पृथिवी कारणं भूयस्त्वात् , शरीरापेक्षया तु 25 १ क्ष कर्मणि P. । २ द्रव्येष्धारब्धारब्धेषु द्रव्येषु पञ्च 0.। ३ भूतकानि 0.। ४ तु 0.
मध्ये नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org