________________
सप्तमस्याध्यायस्य द्वितीयमाह्निकम् । कारणपरत्वात् कारणापरत्वाच । ७ । २ । २६ । परापरदिक्प्रदेशसंयोगावसमवायिकारणम् । तथैव परापरकालपदेशसंयोगौ । दिकालप्रदेशः संयोगात् सन्निकृष्टविप्रकृष्टयोः पिण्डयोः सन्निकृष्टविप्रकृष्टबुद्ध्यपेक्षया सैनिकृष्टेऽपरत्वम् , विप्रकृष्ट च परत्वम् ।
परत्वापरत्वयोः परत्वापरत्वाभावोऽणुत्वमहत्त्वाभ्यां व्याख्यातः । ७।२ । २७ ।
परापरदिकालप्रदेशसंयोगाः परत्वापर त्वयोः कारणम् । अनयोश्च युतसिद्ध्यभावेन संयोगाभावात् परवापरत्वाभावः ।
___ कर्मभिः कर्माणि गुणैर्गुणाः । ७ । २ । २८ । यथा कर्मगुणा अणुत्वमहत्त्वशून्या एवं कर्मगुणा युतसिद्ध्यभावेन दिक्कालप्रदेश. 10 संयोगाभावात् परत्वापरत्वशून्याः।
इहेति यतः कार्यकारणयोः स समवायः । ७ । २ । २९ ।
गुणादयः समवायिनो द्रव्ये । अतः समवायं कथयति - इहेति यतः कार्यकारणयोः प्रत्यय उत्पद्यते ' इह तन्तुषु पटः, इह घटे रूपादयः, इह घटे कर्म ' इति [ स ] समवायः । कार्यकारणग्रहणस्योपलक्षणत्वात् 'जातेयंक्ती विशेषाणां च नित्यद्रव्येषु 15 समवायः' इत्युक्तं भवति । द्रव्यत्वगुणत्वकर्मत्वप्रतिषेधो भावेन व्याख्यातः । ७ । २ । ३० । यथैकद्रव्यवत्त्वान्न द्रव्यं भावो गुणकर्मसु च भावान्न कर्म न गुण एवं समवायोऽपि ।
तत्वं चेति । ७ । २ । ३१ । यथा सल्लिङ्गाविशेषा[देको भावस्तथा 'इह'लिङ्गाविशेषा]देकः समवायो वृत्ति- 20 रहितो नित्यो निरवयवश्च ।
॥ इति सप्तमोऽध्यायः ॥ १ सन्निकृष्टेन परत्वं विप्रकृष्टेनापरत्वम् 0.। २ कर्मत्व° P. मध्ये नास्ति। ३ द्रव्यत्वाद् द्रव्यं भावो 0.1 ४ तत्त्वं च । सप्तमोऽध्यायः PS. । ५ 'सल्लिङ्गाविशेषाद्विशेषलिङ्गाभावाच्चैको भावस्तथा 'इह'लिङ्गाविशेषाद् विशेषलिङ्गाभावाच्चैकः' इत्यपि पाठोऽत्र स्यात् । दृश्यतां पृ० १७ पं० १८ । तुलना-"न 25 च संयोगवद् नानात्वम् , भाववल्लिङ्गाविशेषाद् विशेषलिङ्गाभावाच्च । तस्माद् भाववत् सर्वत्रैकः समवाय इति ।" इति प्रशस्तपादभाष्ये समवायनिरूपणे । ६ दिकः 0.। ७ इति सप्तमोऽध्यायः समाप्तः P.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org