SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ 10 सप्तमस्याध्यायस्य द्वितीयमाह्निकम् ।। युतसिद्धयभावान्न तौ स्त इत्यर्थः । कर्मभिः कर्माणि गुणैर्गुणाः । ७ । २ । १३ । युतसिद्धयभावान संयोगविभागवन्त इत्यर्थः । युतसिद्ध्यभायात् कार्यकारणयोः संयोगविभागौ न विद्यते । ७।२।१४। कार्यकारणयोः परस्परेण संयोगविभागौ न विद्यते यथा घटकपालयोः, युतसिद्धयभावात् । युतसिद्धियोरन्यतरस्य वा पृथग्गतिमत्त्वम् , सा च नित्ययोः, युताश्रयसमवेतत्वं चीनित्ययोः यथा घटपटयोः त्वगिन्द्रियपार्थिवशरीरयोश्च । न च घटकपालयोः युताश्रयसमवायः, घटस्य तेष्वेव समवेतत्वात् । शब्दस्यार्थेन सम्बन्ध इति चेत् , न, गुणत्वात् । ७ । २।१५। आकाशस्य गुणत्वाच्छब्दो नार्थेन सम्बध्यते । __ गुणे च भाष्यते । ७ । २ । १६ । गुणे च रूपं रस इत्यादिषु प्रयुज्यते क्रियायां च, न च गुणकर्मणां गुणैः सम्बन्धः । निष्क्रियत्वात् । ७ ।२। १७ । - 15 अर्थसंयोगे सति शब्दोऽथं प्राप्नुयात् , निष्क्रियत्वाच्च गुणस्य गमनाभावः । असति नास्तीति च प्रयोगात् । ७ । २ । १८ । अर्थसंयोगे सति शब्दः 'असति' अभावे 'नास्ति' इति न प्रयुज्येत । न बसता संयोगः । तस्मात् संयोगस्याभावात् शब्दार्थावसम्बद्धौ । ७।२।१९।। १ नैतौ 0.।२ चानित्ययोः तथा घटपटयोः त्वगि° 0.। वानित्ययोः त्वगि° P. । तुलना-" सा पुनर्द्वयोरन्यतरस्य वा पृथग्गतिमत्त्वं पृथगाश्रयाश्रयित्वं चेति ।......सा पुनद्वयोरन्यतरस्य वा पृथग्गतिमत्त्वम् । इयं तु नित्यानाम् । अनित्यानां तु युतेष्वाश्रयेषु समवायो युतसिद्धिरिति त्वगिन्द्रियशरीरयोः पृथग्गतिमत्त्वं नास्ति युतेष्वाश्रयेषु समवायोऽस्तीति परस्परेग संयोगः सिद्धः । ......" इति प्रशस्त-25 पादभाग्ये संयोगविभागनिरूपणे । ३ असति नास्तीति प्रयोगः 0. P. । 20 - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy