________________
५८
चन्द्रानन्दविरचितवृत्त्यलङ्कृते वैशेषिकसूत्रे ननु सर्वेषामेव पदार्थानामेकत्वं सदविशेषात् , निःसंख्यत्वात् कर्मगुणानां सर्वैकत्वं न विद्यते । ७ । २।६। कर्मणां गुणानां च संख्यारहितत्वात् सर्वेकत्वं नैवास्ति ।
भाक्तमेकत्वं गुणादिष्विति चेत् , 5 एकत्वस्याभावाद् भाक्तं न विद्यते । ७ । २ । ७ ।
मुख्यस्यैकत्वस्याभावाद् गुणादिषु *भाक्तं यदेकत्वं करप्यते तद् भवत एकत्वसिद्धौ न पर्याप्नोति, ' द्रव्येषु मुख्यम् , गुणेषु* भाक्तम्' इत्यत एंव मेदपसमात् । __ननु कार्यकारणयोरेकत्वं प्राप्तं द्रव्ये संख्यानिर्विशेषात् , ऐकत्वाभावादेव पृथक्त्व
भावः स्यात् । नैतत् , 10 कार्यकारणैकत्वपृथक्त्वाभावादेकत्वपृथक्त्वे न विद्यते । ७।२।८। द्वित्गत् कार्यकारणयोर्नेकत्वं कार्यस्य कारणव्यतिरिक्ताश्रयाभावाद् नापि पृथक्त्वम् ।
एतदनित्यनित्ययोाख्यातम् । ७ । २।९। एतत् पूर्वसूत्रमनित्यविषयमपि नित्येष्वाकाशादिषु यथासंभवं व्याख्यातं बोद्धव्यम् । तथाहि-शब्दाकाशयोः कार्यकारणयोनैकत्वं नापि पृथक्त्वम् । 15. अन्यतरकर्मज उभयकर्मजः संयोगजश्व संयोगः । ७।२ । १० ।
-- अन्यतरकर्मजः संयोगः श्येनस्योपसर्पणकर्मणा स्थाणुना। मल्लयोरुपसर्पणादुमयजः । संयोगजः कारणाकारणयोः संयोगात् कार्याकार्यगतः, यथानुल्याकाशसंयोगाभ्यां द्वयङ्गुलाकाशसंयोगः ।
एतेन विभागो व्याख्यातः । ७ । २ । ११ । । अन्यतरकर्मजो विभागः श्येनस्यापसर्पणात् । उभयकर्मजो मेषयोरपसर्पणात् । विभागजस्तु अङ्गुल्योरन्योन्यविभागाद् विनष्टमात्रे व्यङ्गुलेऽङ्गुल्याकाशविभागः, कारणा. कारणयोर्वा हस्ताकाशयोविभागाच्छरीराकाश विभागः।
संयोगविभागयोः संयोगविभागाभावोऽणुत्वमहत्त्वाम्यां व्याख्यातः । ७।२। १२ ।
१ नास्ति P । २ एकस्याभावाद् PS. मि. । एकत्वाभावाद् उ.। ३ * * एतच्चिलान्तर्गतः पाठः P. मध्ये नास्ति । ४ एतीप्रसङ्गात् । ५ एकत्वभावादेव पृथग्भावः स्यात् P.। ६ एतदनित्ययों PS. मि. उ.। तदनित्ययो' P.। ७ नित्येष्वत्याकाशा P.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org