SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ चन्द्रानन्दविरचितवृत्त्यलते वैशेषिकसूत्रे यदि प्रयत्नः प्रधानम् , विनापि योगादिनाभ्युदयः स्यात् । नैतत् , ___ असति चाभावात् । ६।२ । ११ । असति योगाद्यनुष्ठाने न प्रयत्नमात्रस्य भावादभ्युदयः, क्रियोपदेशवैयर्थ्यात् । इदानीं निःश्रेयसहेतुं धर्ममाह सुखाद्रागः । ६ । २ । १२ । स्त्यादिविषयजनितात् सुखादेव रागो वर्धते । तन्मयत्वात् । ६ । २ । १३ । यैरस्य सुखहेतुभिः शरीरं भावितं तन्मय इवास्ते । ततस्तन्मयस्वाद् रागः । किञ्च, तृप्तेः ।६।२। १४ । यदा तृप्तो भवति तदास्य तृप्तिनिमित्तो रागो भवति शरीरपुष्टेः । किञ्च, अदृष्टात् । ६ । २ । १५।। अपूर्वदृष्टेष्वनुपकारकेषु च कस्यचिद् रागो जायतेऽत्रादृष्ट एव कारणम् । 15 किश्च, जातिविशेषाच्च रागविशेषः । ६ । २ । १६ । - यथा तिरश्चां तृगादिभोजने एवं जातिविशेषादपि रागः । सुखादिभ्यो रागो दुःखादिभ्यो द्वेषः । ततः इच्छाद्वेषपूर्विका धर्माधर्मयोः प्रवृत्तिः। ६ । २ । १७ । 20 इच्छापूर्विका धर्मे प्रवृत्तिः, अन्येन धनमदादभिभूतस्य वा द्वेषपूर्विकापि ग्राम कामे. ष्टयादौ । अधर्मेऽपीच्छापूर्विका परदारादिषु द्वेषपूर्विका । एवं धर्माधर्मयोः सञ्चयः । यत एवं ततः संयोगो विभागश्च । ६।२।१८। १ (यागा ?) । २ यैयैरस्य 0. । यैरप्य P. । ३ शरीरे पुष्टे 0. । ४ अदृष्टत्वात् 0.। 25 ५ °पीच्छा परदारा P. । ६ एतत् 0. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy