SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ षष्ठस्याध्यायस्य द्वितीयमाह्निकम् । एवं श्रुतिस्मृतिविधिभ्यो धर्मो भवतीत्युक्त्वेदानीमेषां धर्मसिद्धौ प्रकारविशेषमाह । तथाहि दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगोऽभ्युदयाय । ६।२।१। 5. श्रुतिस्मृतिपरिदृष्टानां स्नानादीनां दृष्टस्य मलापकर्षादेरन भिसन्धाने प्रयोगोऽभ्यु. दयाय भवति । - के ते! अभिषेचनोपवासब्रह्मचर्यगुरुकुल वासवानप्रस्थ्ययज्ञदानप्रोक्षणदिनक्षत्रमन्त्रकालनियमाश्चादृष्टाय । ६ । २ । २ । 10 विशिष्टदेशकालापेक्षेणाम्भसा यः शरीरस्य संयोगस्तदभिषेचनं स्नानम् । नक्तं. दिनं वासो नियमपूर्वोऽनाहाररूप उपवासः । ब्रह्मशब्देन आत्मा, ब्रह्मणि चरणमात्ममनसोर्यः संयोगः स्यादिपरिहाररूपो ब्रह्म वर्यम् । विज्ञानाद्यर्थिनो गुरुपरिचर्यापरस्य तद्गृहेषु वसनं गुरुकुलवासः । शास्त्रविधिना गेहानिःसृत्यारण्यं प्रस्थितो वानप्रस्थः, तस्य कर्म वानप्रस्थ्यम् । यज्ञाः पाकयज्ञादयः । दानं सुवर्णादिदानमभयदानं च। प्रोक्षणं 15 सन्ध्योपासनादि । दिनियमादयोऽन्ये विशेषाः । दिनेयमः-'प्राङ्मुखोऽन्नानि भुञ्जीत' [ ] । नक्षत्रनियमः-' कृत्तिकास्वादधीत ' [ ] । मन्त्रनियमः-देवस्य त्वेति 'निर्वपति । कालनियमः-' वसन्ते ब्राह्मणोऽग्नीनादधीत ' [ ]। एवमेतत् सर्व दृष्टप्रयोजनतिरस्कारेण प्रयुज्यमानं धर्माय सम्पद्यत इति । चातुराश्रम्यमुंपधाचानुपधाच । ६ । २ । ३ । यदिदं चतुर्णामाश्रमिणां कर्म तदुपधया प्रयुज्यमानमधर्मायानुपधया तु धर्माय भवति । १ तथाहि 0. मध्ये नास्ति । २ वानप्रस्थयज्ञ P. मि. उ.। वानप्रस्थायज्ञPS.। ३ गुरुचर्या P. । ४ शास्त्रविधिना गेहान्निःसृत्यारण्य प्रस्धितो ० । शास्त्रविधिनान्निःसृतारण्यप्रस्थितो P. I 25 ५ वानप्रस्थम् P.। ६ निर्वापयति O. । ७ मुपधाश्चानुपधाश्च P. । 'मुपधानुपधाश्च मि. उ. । अत्र उपधाश्चानुपधाश्च इति P. पाठोऽपि समीचीनो भवेत् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy