SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ततः अदुष्टेऽपि - विशिष्टे प्रवृत्तिः । ६ । १ । १३ । न हिंसादिमात्ररहिते, अपि तु देशकालविज्ञानाचारैर्विशिष्ठे ब्राह्मणेऽभ्युदयार्थिनः प्रवृत्तिः । षष्ठस्याध्यायस्य प्रथममाह्निकम् । " समे हीने चाप्रवृत्तिः | ६ | १ | १४ | अदुष्टो ब्रह्मणो देशादियुक्तो विशिष्ट उच्यते । एषामेकेन गुणेन युक्तः समः सवैर्युक्तो विशिष्टः । तौ त्यक्त्वान्यो दुष्टो वा क्षत्रियादिर्वा प्राणिमात्रं वा हीन उच्यते । तत्र भ्युदयेप्सोर्मन्त्रपूर्व के सुवर्णादिदाने वैशाख्यादिनिमित्ते समहीनयोरप्रवृत्तिः, अपि तु विशिष्टे । एतेन हीनसमविशिष्टधार्मिकेभ्यः परादानं व्याख्यातम् | ६ | १ | १५ । एतेन विपरीतेन क्रमेणापदि परस्वादानं व्याख्यातम् । उक्तं च 'हीनादादेयमादौ तु तदभावे समादपि । असम्भवे त्वाददीत विशिष्टादपि धार्मिकात् ॥ ' [ ४७ ] तथा विरुद्धानां त्यागः | ६ | १ | १६ | अनेनैव विपरीतक्रमेण ब्रह्मण आत्मनो हीने रिपुभिर्मारणायाक्षिप्तस्तानेव शत्रून भिहन्यात् । Jain Education International For Private & Personal Use Only 5 10 समे आत्मत्यागः परत्यागो वा । ६ । १ । १७ । आत्मनस्तुल्यगुणेन शत्रुणा प्राप्तस्य ब्राह्मणस्य विकल्पः - आत्मनो वध आततायिनो वा । विशिष्टे आत्मत्यागः । ६ । १ । १८ । 20 आत्मनोऽधिकगुणेन शत्रुणा प्राप्तस्यात्मन एवं रिपुप्रयुक्तो वधोऽङ्गीकार्यः । इहात्मापेक्षया हीनादिव्यवहारः, प्रतिमहे प्रतिग्रहीतॄणामन्योन्यापेक्षया । || इति षष्ठस्याद्यमाह्निकम् ॥ 15 २ विशिष्टप्रवृत्तिः 0. । ३ देवसत्कुल विज्ञानाचार विशिष्टब्राह्मणे । ४ युक्तोऽपि 0. ५ समः । तौ त्यक्त्वान्यो दुष्टो वा क्षत्रियादिर्वा प्राणिमात्रं वा P. । समः । सर्वैर्युक्तो विशिष्टः । तौ त्यक्त्वा दुष्टो वा क्षत्रियादेः प्रतिमात्रं वा । ६ वाददीत 0. । ७ ङ्गीकर्तव्यः 0. ८ प्रतिग्रहीतृणामन्योन्यापेक्षयति । प्रतिग्रहीत्रणा अन्योन्यापेक्षश्चेति P. 25 www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy