SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ चन्द्रानन्दविरचितवृत्त्यलङ्कृते वैशेषिकसूत्रे । तथा प्रतिग्रहः । ६। १ । ५। तथैव प्रतिग्रहोऽपि प्रक्षीणवृत्तेरवदात जन्मनः प्रतिग्रहानुपरूगुणयुक्तस्य धर्मायैव भवति। तयोः क्रमो यथाऽनितरेतराङ्गभूतानाम् । ६ । १ । ६ । यथा भूतानि अनितरेतराझं न परस्परेण कार्यकारणभूतानि, न ह्यरणी अमेः 5 कारणम् , अपि तु स्वावयवा एव, अथ चारण्योरमेश्च क्रमः । एवमेतयोः पूर्वं दानधर्मः पश्चात् प्रतिग्रहधर्मः, न तु कार्यकारणभावः । कुतः ! आत्मगुणेष्वात्मान्तरगुणानामकारणत्वात् । ६ । १ । ७। न ह्यन्यदीया आत्मगुणा अन्यदीयात्मगुणानां कारणं भवन्ति । 10 अदुष्टभोजनात् समभिव्याहारतोऽभ्युदयः । ६ । १ । ८। अदुष्टं ब्राह्मणं भोजयित्वा तदीयादाशीर्वादादिसमभिव्याहारात् पुरुषाभ्युदयः । तत्कारणं धर्मो भवतीत्यर्थः। तद् दुष्टभोजने न विद्यते । ६ । १ । ९ । 15 सत्यप्याशीर्वादादिवचने दुष्टं ब्राह्मणं भोजयित्वाभ्युदयो न प्राप्यते । अथ को दुष्टः ! दुष्टं हिंसायाम् । ६ । १ । १० । परस्य हिंसायां शरीरमानसदुःख रूपायां प्रवृत्तं दुष्टं जानीष्व । हिंसाशब्द उपलक्षणम् , यतः समभिव्याहारतो दोषः । ६ । १ । ११ । कृतमहापातकस्य संभाषणमात्रादेव दोषेण युज्यते, किमुत भोजनादिना ! इह सम भिव्याहारः सम्भाषणम् , पूर्वत्राशीर्वादः । तददुष्टे न विद्यते । ६ । १ । १२ । तत् समभिव्याहारदूषणं हिंसादिरहिते ब्राह्मणे न विद्यते । 25 १ युज्येत P.। 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy