________________
षष्ठस्याध्यायस्याद्यमाह्निकम् । कर्माणि व्याख्याय गुणा व्याख्यायन्ते । तत्र धर्म आदौ व्याख्यायते, शास्त्रादौ तस्योद्दिष्टत्वात् । तस्य वैदिको विधिः साधनम् । वेदस्य सत्यता कुत इति चेत् , यतः
बुद्धिपूर्वा वाक्यकृतिर्वेदे । ६ । १।१।। 'अग्निहोत्रं जुहुयात् स्वर्गकामः' [ ] इत्येवंभूता रचना भगवतो 5 महेश्वरस्य बुद्धिपूर्वा सा ततः प्रमाणम् , आप्तप्रणीतत्वस्य सत्यताव्याप्तेः। अतीन्द्रियमशक्यं ज्ञातुमिति चेत् ,
नं चास्मद्बुद्धिभ्यो लिङ्गमृषेः । ६ । १।२ । लियतेऽनेनार्थ इति लिङ्गं विज्ञानम् । न हि यादृशमस्मद्विज्ञानं वर्तमानाव्यवहित. सम्बद्धार्थविषयं तादृशमेव भगवतो विज्ञानम् । अतः सम्भवति भगवतोऽतीन्द्रियार्थविषयं 10 विज्ञानम् । स कथं ज्ञायते !
तथा ब्राह्मणे संज्ञाकर्मसिद्धिलिङ्गम् । ६ । १ । ३ । विनोपदेशेन ब्राह्मणादिकमर्थमस्माकमालोचयतां प्रत्यक्षेण न ‘ब्राह्मणोऽयम् ' इति । ज्ञानमुत्पद्यते । प्रत्यक्षेण चार्थमालोच्य संज्ञापणयनं दृष्टं पुत्रादिषु । सन्ति चैता ब्रामणादि 15 संज्ञास्ता येन प्रत्यक्षमर्थमालोच्य प्रणीता इति सूत्रार्थ वर्णयन्ति ।
अतः
बुद्धिपूर्वो ददातिः । ६।१।४। यत एंव परमेश्वरस्य कृतिर्वेदादो वाक्यपदरचनाऽतोऽयं स्मातोऽपि दानादिविधिस्तदीयमाम्नायमनन्तशाखाभिन्नमालोच्य संक्षेपमनुमन्यमानानां भृगुपभृतीनां बुद्धिपूर्वः । 20 एवं दानादिविधयो धर्महेतवः ।
१ बुद्धिपूर्वा याऽतः P । २ स चास्मबुद्धिभ्योलिङ्गमृषेः 0. । स वास्मबुद्धिभ्यो] लिङ्गमृषेः मि.। 'अस्मबुद्धिभ्यो लिङ्गमृषेः '-मुद्रितन्यायकन्दली पृ. २१६, किन्तु जेसलमेरस्थेऽतिप्राचीने हस्तलिखिते न्यायकन्दलीपुस्तके 'न चास्मबुद्धिभ्यो लिङ्गमृषेः' इत्येव पाठोऽत्रवदिति ध्येयम् । ३ एवं ०. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org