SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ चन्द्रानन्दविरचितवृत्त्यलते वैशेषिकसूत्रे । दिक्कालावाकाशं च क्रियावद्भयो वैधानिष्क्रियाणि। ५।२।२३। आकाश-काल-दिशोऽमूर्ताः क्रियावतः पृथिव्यादेरमूर्ततया वैधानिष्क्रियाः, 'च'शब्दादात्मापि निष्क्रियः । एतेन कर्माणि गुणाश्च व्याख्याताः । ५। २ । २४ । एतेनामूर्तत्वेन गुणाः कर्माणि च निष्क्रियाणि द्रष्टव्यानि, 'च'शब्दात् सामान्यादयः । निष्क्रियाणां समवायः कर्मभ्यः प्रतिषिद्धः । ५। २ । २५ । निष्क्रियाणामभिध तादीनां कर्म समवेतं न भवति, स्वाश्रये कर्मजननात् । कारणं त्वसमवायिनो गुणाः । ५। २ । २६ । यस्य गुणा: कारणमुक्तास्तस्यासमवायिन एव कारणम् । गुणैर्दिग् व्याख्याता । ५। २ । २७ । 'पूर्वेण निष्क्रमणम्' इत्यादेः प्रत्यय मेवस्य दिग निमित्तकारणं व्याख्याता, कारणत्वेनातिदेशो नासमवायित्वेन । कारणेन काल इति । ५। २ । २८ । येनैव कारणेन प्रत्ययभेदहेतुत्वेन दिगू व्याख्याता तेनैव 'युगपत् कृतम्' इत्यादि1 प्रत्यय भेदस्य कालो निमित्त कारणं व्याख्यातः । ॥ पञ्चमोऽध्यायः । समाप्तः कर्माधिकारः ।। 10 १ एतेन मूर्तत्वेन कर्माणि निष्क्रियाणि द्रष्टव्यानि 0। एतेन मूर्तत्वेन गुणाः कर्माणि च निष्क्रियाणि P. | २ कारणेन कालः । पञ्चमोऽध्यायः PS. I Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy