________________
योगानं प्राणायामकर्म किं नोक्तम् ?
पञ्चमाध्यायस्य द्वितीयमाह्निकम् ।
काय कर्मणाssत्मकर्म व्याख्यातम् | ५ | २ । १८ ।
इह आत्मशब्देन वायुः, यथात्मसंयोग प्रयत्नाभ्यां हस्ते कर्म तथात्मवायुसंयोगात् प्रयत्नाच्च प्राणायामकर्म ।
अपसर्पणमुपसर्पणमशितपीत संयोगः कार्यान्तरसंयोगश्चित्पदृष्ट- 5 कारितानि | ५ | २ । १९ ।
मरणकाले पूर्वशरीराद् मनसो निःसरणमपसर्पणम्, शरीरान्तरेणाभिसम्बन्धो मनस उपसर्पणम्, शुक्रशोणितात् प्रभृति गर्भस्थस्य मात्रा उपयुक्तेनान्नपानेन नाड्यनुप्रविष्टेन सम्बन्धोऽशितपीत संयोगः, कललार्बुदमांसपेशीघनशरीरादिभिरेकस्मिन्नेत्र संसारे ये सम्बन्धास्ते कार्यान्तरसंयोगाः, तान्यपसर्पणादीन्यदृष्टेनैव क्रियन्ते, न प्रयत्नेन । तदभावे संयोगाभावोऽप्रादुर्भावः स मोक्षः । ५ । २ । २० । एवंरूपस्यानाद्यपसर्पणादिनिमित्तस्यादृष्टस्याभावे जीवनाख्यस्यात्ममनः संयोगस्याभावोऽन्यस्य च शरीरस्याप्रादुर्भावो यः स मोक्षः ।
तमोवृतत्वात् सर्वस्य ज्ञानानुत्पत्तौ तमो हेतुः । तत् पुन:
कुत एतत् ?
४.३.
द्रव्यगुणकर्मवैधर्म्याद् भावाभावमात्रं तमः । ५ । २ । २१ । विनाशित्वेन नित्यैद्रव्यैवैधर्म्याद मूर्तत्वास्पर्शत्वप्रकाश विरोधैर नित्यद्रव्यैर्वैधर्म्यान्न द्रव्यं तमः, न च गुणः कर्म वा आश्रयानुपलब्धेः । तस्मात् प्रकाशस्याभावमात्रं तमः ।
--
Jain Education International
66
,
१ संयोगः कायान्तर PS | 'संयोगकार्यान्तर P. संयोगाः कार्यान्तर 0 मि. उ. सेतु पृ० ४१३, व्योमवती पृ० ४२७ । 'कायान्तर े इति PS. पाठोप्यत्र समीचीनतरो भाति । कार्यान्तरं शरीरान्तरम् " - व्योमवती पृ० ४२७ । २ ( उपभुक्तेन ? ) " अशितपीतं भुक्तमुदकादि, तयोर्नाडयन्तरेण सञ्चरणम् - व्योमवती पृ० ४२७ । ३ नाड्यानुप्रविष्टे सम्बन्धों P. । ४ ते तान्पस P. । ५ तमोवृत्तत्वात् O P । ६ भावाभावस्तमः PS | अभावस्तमः उ । भाइभावस्तमः - न्यायकन्दली पृ० ६ । अत्र वृत्त्यनुसारेण न्यायकन्दल्यनुसारेण मि. अनुसारेण च 'भाऽभावस्तमः' इति पाठोऽनुमतो भाति ।
For Private & Personal Use Only
तेजसो द्रव्यान्तरेणावरणाच्च | ५ | २ | २२ ।
तेजसः सवितृप्रकाशादेर्बहिः सद्भावात् पर्वतगुहादौ च द्रव्यान्तरेणावृतेऽभावाद् 20 मन्यामहे-तेजसोऽभावमात्रं तम इति । बाह्यं प्रदीपादिनिवर्त्यम्, अविद्यात्मकं तु ज्ञानज्योतिषा, इत्युक्तौ योगमोक्षौ ।
10
15
25
www.jainelibrary.org