________________
पञ्चमस्याध्यायस्य द्वितीयमाह्निकम् । विधारकाभावादपां स्यन्दनकर्म द्रवत्वाद् भवति ।
नाड्या वायुसंयोगादारोहणम् । ५ । २ । ६ । नाडीति रश्मिः, सवितुर्की रश्मी-शुचिश्च शुक्रश्च । शुचिरप आदत्ते शुकण वृद्धि करोति । शुच्याख्यया नाड्या वायुसंयुक्तया आदित्यप्रयत्नापेक्षयारोहणम् ।
नोदनात् पीडनात् संयुक्तसंयोगाच्च । ५ । २।७। । - नोदनाचित्रंदण्डादिभिरारोहणम्, पीडनाद् वस्त्रादिभिः, पीब्यमाननुपमानाभ्यां च. संयुक्ते। . वृक्षाभिसर्पणमित्यदृष्टकारितम् । ५। २।८। ।
वृक्षमूले निषिक्तानामपां वृक्षोपरि गमनमदृष्टेन क्रियत इति । अपां सङ्घातो विलयनं च तेजसः संयोगात् । ५ । २।९। 10 अपां सङ्घातः काठिन्यं दिव्येन तेजसा संयोगात् , दिव्यभीमाभ्यां तु विलयनम् ।
तंत्रावस्फूर्जलिङ्गम् । ५। २ । १० । 'अस्ति दिव्यासु अप्सु तेजः' इत्यत्र तेजसः अवस्फूर्जथुरप्रानिःसरणं लिङ्गमिति ।
वैदिकं च । ५। २ । ११ । 'तो अग्नि गर्भ दधिरे वभूषा' [ ] इति च वैदिकं वाक्यं दिव्यास्वप्सु 15 तेजसो लिङ्गमिति ।
अपां संयोगाद विभागाच स्तनयित्नुः । ५ । २ । १२ । मेघाशनिशब्दः स्तनयित्नुः । विरुद्धदिक्रियाभ्यां वायुभ्यामपां प्रेर्यमाणानां तरङ्गभूतानां परस्पराभिघाताख्यात् संयोगाच्छब्दः। एकेनापि प्रकुपितेन वायुना व्यवच्छिद्यमानानामपां विभागाच्छब्दः ।
20 पृथिवीकर्मणा तेजःकर्म वायुकर्म च व्याख्यातम् । ५ । २ । १३ ।
यथा नोदनाभिघातसंयुक्तसंयोगादृष्टेभ्यः पृथिव्यां कर्म तथा तेजसो वायोश्च । एतदनियतं कर्म ।
१ आदित्यं चतुरपेक्षया 0.। २ चित्रचण्डादिभि° 0.। ३ तेजःसंयोगात् 0 उ. । ४ तत्र च स्फूर्जथु' P. । तत्रास्फूर्जथु° 0.। तत्रापर्पजथु' मि. । तत्र विस्फुर्ज° उ. । ५ अथस्फूर्जथु 25 P. । ६ ता अग्निगर्भं दधिरे विरूपा 0. । ७ लिङ्गम् P. । ८ एतदपि नियतं 0. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org