SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ पञ्चमस्याध्यायस्य प्रथममाह्निकम् । तृणकर्म वायुसंयोगात् । ५ । १ । १४ । वेगापेक्षाद् वायुतृणसंयोगात् तृणादीनां कर्म, तेषां प्रयत्नाभावात् । मणिगमनं सूच्यभिसर्पणमित्यदृष्टकारितानि । ५ । १ । १५ । मणीनां तस्करं प्रति गमनं सूचीनां चायस्कान्तं प्रति धर्माधर्मकृतमित्यर्थः । इषावयुगपत् 'संयोगविशेषाः कर्मान्यत्वे हेतुः | ५ | १ | १६ | 5 नोदनादार्थ कर्म, संस्काराद् बहूनि कर्माणि इषावुत्पद्यन्ते । एकस्मिंस्तु कर्मणि प्रथमेणैवाकाशसंयोगेन विनष्टत्वात् कर्मण उत्तरसंयोग विभागा नोत्पद्येरन् तस्मादिषाव कं कर्म । नोदनादाद्यमिषोः कर्म कर्मकारिताच्च संस्कारादुत्तरं तथोत्तर. मुत्तरं च । ५ । १ । १७ । ज्याशरसंयोगः प्रयत्नापेक्षो ज्यागतवेगापेक्षो वा नोदनम्, तत आद्यमिषोः कर्म नोदनापेक्षं संस्कारं करोति, निरपेक्षं तु संयोगविभागौ । ततः संयोगाद् विनष्टे कर्मणि नोदने विभागाद् विनिवृत्ते आद्यकर्मजसंस्कार उत्तर मिषौ कर्म करोति, तथोत्तरमुत्तरं पौनःपुन्येनेत्यर्थः । संस्काराभावे गुरुत्वात् पतनम् । ५ । १ । १८ । स्पर्शवद्द्रव्यसंयोगेन संस्कारविनाशाद् गुरुत्वं तत्पतनकर्म करोति । " || पञ्चमस्याद्यमाह्निकम् ॥ Jain Education International ३९ For Private & Personal Use Only १ वायस्कान्तं P. । २ संयोगविशेषात्कमन्यत्वे हेतु : P . । संयोगविशेषात् कर्मान्यत्वे हेतुः PS.। संयोगविशेषः कर्मान्यत्वे हेतुः । संयोगविशेषाः कर्मान्यत्वे हेतुः मि. उ. । संयोगविशेषाः कर्मान्यत्वे हेतवः न्यायवार्तिक. १ । ४० । ३ तत्कर्मकारिताच मि. उ. सूक्ति पृ० १७१, 20 सेतु पृ० १८०, व्योमवती पृ० १९५४ निवृत्ते 0. । ५ तथोत्तरमुत्तरेण O. 10 www.jainelibrary.org 15
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy