SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 चन्द्रानन्दविरचितस्यकुते वैशेषिकसूत्रे । तथात्मकर्म हस्तसंयोगाच्च । ५ । १ । ३ । आत्मेति शरीरैकदेशः, यथा चैतदप्रत्ययं हस्ते मुसले च कर्म तथैव हस्तावयवसंयोगाद् हस्तगतवेगापेक्षाद् हस्तोत्पतनकालेऽत्रयत्रे तस्मिन्नप्रत्ययं कर्म जायते । संयोगाभावे गुरुत्वात् पतनम् | ५ | १ | ७। विभागान्निवृत्ते हस्तमुसलसंयोगे गुरुत्वात् पतनं भवति । नोदनविशेषाभावाद नोर्ध्वं न तिर्यग् गमनम् | ५ | १ | ८ | नुद्यतेऽनेनेति नोदनं वेगप्रयत्नापेक्षः संयोगविशेषः, प्रेरक पयत्नाभावे नोदनाभावाद् नोर्ध्वं तिर्यग् वा केवलाद् गुरुत्वाद् मुसलादेर्गमनकर्म भवति । कुतो नोदनविशेष: ? १८ प्रयत्न विशेषान्नोदन विशेषः । ५ । १ । ९ । 6 अत्र इदं क्षिपामि ' इति इच्छाविशेषजः प्रयत्न उत्पन्नो हस्तादेर्द्रव्यस्य द्रव्यान्तरेण संयोगं नोदनाख्यं जनयति । नोदनविशेषादुदसन विशेषः । ५ । १ । १० । दूर देशप्रेरणेच्छा विशिष्टात् प्रयत्नाज्जातो नोदनविशेषो दूरदेश क्षेपणं करोति । हस्तकर्मणा दारककर्म व्याख्यातम् । ५ । १ । ११ । यद् गर्भस्य स्पन्दनादिकर्म तदात्मशरीरैकदेशसंयोगाज्जीवनपूर्वक प्रयत्नापेक्षाद् भवतीति सप्रत्ययम्, मातुः कार्यावह्करोपसर्पणकर्म गर्भस्याप्रत्ययमात्मसंयोगाददृष्टापेक्षाद् भवतीति । तथा दग्धस्य विस्फोटनम् । ५ । १ । १२ । व्यासक्ते मनसि यद् दग्धस्य ईस्तादेर्विशेषणं तदपि जीवनपूर्वकप्रयत्नापेक्षादात्महस्तसंयोगाद् भवतीति नाप्रत्ययम् । प्रयत्नाभावे गुरुत्वात् सुप्तस्य पतनम् । ५ । १ । १३ । शरीर विधारक प्रयत्नाभावे सुप्तस्याङ्गानां पतनं गुरुत्वाद् भवति तदाभिसन्धेर भावात् । १ ततो 0. । २ दूरदेशे O । ३ प्रत्ययात्मसंयोगा 0.1 ४ हस्तादेरवक्षेपणं O. ५ तदाभिसन्धे P। तदभिसन्धे 0. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy