SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ पञ्चमस्याध्यायस्य प्रथममाह्निकम् । एवमुक्तेषु द्रव्येषु गुणानुल्लङ्घय अल्पवक्तव्यत्वात् कर्माण्यभिधत्ते । तत्र आत्मसंयोगप्रयत्नाभ्यां हस्ते कर्म । ५।१।१। स्वाश्रयसंयोगापेक्षित्वात् प्रयत्नस्य क्रियारम्भे आत्महस्तसंयोगः कर्मणः कारणम् । सोपेक्षकारणत्वात् संयोगस्य प्रयत्नोऽपि कारणम् । अतो द्वाभ्यां हस्ते कर्म । तथा मुसलकर्म हस्तसंयोगाच्च । ५ । १ । २। तथेति सङ्ख्यामात्रातिदेशः, तेन हस्तमुसलसंयोगो मुसलकर्मणः कारणं पूर्वाधिकृतश्च प्रयत्नः । न तु आत्महस्तसंयोगोऽसमवायिकारणं मुसलकर्मणि, आत्मसंयुक्तहस्तसंयोगादेव तसिद्धेः। ___ अभिघातजे मुसलकर्मणि व्यतिरेकादकारणं हस्तसंयोगः 10 ।५।१।३। वेगवगव्यसंयोगोऽभिघातः, उलूखलाभिघातादुत्पन्ने मुसलस्योत्पतनकर्मणि अकारणं हस्तमुसलसंयोगः पूर्वप्रयत्नस्याभिघाताद् विनष्टत्वात् , ' उत्पततु मुसलद्रव्यम्' इती. च्छाया अभावात् प्रयत्नान्तरस्याभावः, संयोगस्य च गुणकारम्भे सापेक्ष कारणत्वात् प्रयत्नरहितो हस्तमुसलसंयोगो न कारणमुत्पतनस्य । 15 तथात्मसंयोगो हस्तमुसलकर्मणि । ५।१।४। यथैव हस्तमुसलसंयोगो मुसलोत्सतनकर्मणि न कारणं तथात्महस्तसंयोगोऽपि हस्तोत्पतनकर्मणि न कारणं संयोगस्य सापेक्षकारणत्वात् ' मुसलेन सहोत्पततु हस्तः, इति [अभि]सन्धेरभावेन प्रयत्नस्य चाभावात् । कुतस्तयोरुत्पतनमिति चेत्, 20 मुसलाभिघातात्तु मुसलसंयोगाद्धस्ते कर्म । ५ । १।५। उलूखलाभिघातो मुसलस्योत्पतनकर्मणः कारणम् । हस्तमुसलसंयोगस्तु मुसलगतवेगापेक्षो हस्तकर्मणः कारणम् , नाभिघातोऽसमवेतत्वात् । १ सापेक्षि 0.। २ गुणकर्मारम्भसापेक्ष 0.। णकारम्भे सापेक्ष P.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002759
Book TitleVaisheshika Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherOriental Research Institute Vadodra
Publication Year1961
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy