________________
चतुर्थस्याध्यायस्य द्वितीयमाह्निकम् । इदानीमाध्यात्मिकमेषां कार्यमुच्यते, तत्र
प्रत्यक्षाप्रत्यक्षाणामप्रत्यक्षत्वात् संयोगस्य पश्चात्मकं न विद्यते । ४।२।१।
क्षित्यादिपञ्चकेन शरीरारम्भे त्रयाणां प्रत्यक्षत्वाद् वायोर प्रत्यक्षत्वाद् यथा तद्वता 5 संयोगोऽप्यपत्यक्ष एवं शरीरमप्रत्यक्षं स्यात् प्रत्यक्षाप्रत्यक्षरारब्बत्वात् । प्रत्यक्षत्वात्तु मन्यामहे-न पञ्चभिरारब्धमिति ।
ननु त्रिभिः प्रत्यक्षरीरभ्येत, गुणान्तराप्रादुर्भावाच्च व्यात्मकमपि न । ४ । २ । २ ।
क्षितिसलिलानलैरारम्भे विलक्षणेभ्यो रूपादिभ्यः कार्ये विलक्षणानि रूपाणि 10 गुणान्तराणि जायेरन् । न त्वेवम् । अपि तु पार्थिवानेव रूपादीनुपलभामहे । तस्मान्न व्यात्मकम् ।
आत्मसंयोगस्त्वविप्रतिषिद्धो मिथः पञ्चानाम् । ४ । २ । ३.। ..
मात्मशब्देन स्वरूपम् , स्वरूपेण पञ्चानामपि भूतानां परस्परसंयोगो न प्रतिषिध्यते शरीरेऽनारम्भकत्वेन । पार्थिवशरीरे जलादीनि संयोगीनि, न समवायीनि । जलादिभिर- , योनिजमेव शरीरमारभ्यते वरुणलोकादौ । कुतः !
अनेकदेशपूर्वकत्वात् । ४ । २।४ । अनेकदेशाः परमाणवः, तैरेवारभ्यते जलादिशरीरम्, न शुक्रशोणिताभ्याम् । तच
. धर्मविशेषात् । ४ । २।५। धर्मविशेषापेक्षाः परमाणव एव शरीरमारमन्ते न शुकादि। कथं हि पुण्यवतां शुक्रादिमयं शरीरं स्यात् ।
१ प्रत्यक्षाप्रत्यक्षाभ्यामप्रत्य° P. । २ प्रारभ्यते 0. । ३ शरीरेणारम्भकत्वेन 0. P.। ४ तैरारभ्यते 0. I.
20
28
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org