________________
१७८
जयोदय-महाकाव्यम्
२१-२२-२३ ]
तुल्या तरुणीभिश्चंभरूणां तरुणानामिव तत्र तरूणाम् । विपल्लवाभावतया ख्याता लताः सतां समवतां ताः ॥२१॥
टीका--तत्र स्थले ता लता या विपल्लवानां भृष्टपत्राणां विपत्तिलवानां वाभावस्तत्तया ख्याताः सत्यः सतां समीचीनानां सङ्गवतां प्रसङ्गप्राप्तानां तरूणां मध्ये तरुणानां यौवनवतां भरूणां भतणां मध्ये स्थिताभिस्तरुणीभिस्तुल्याः सदृशा बभुरित्युपरिष्टात् ॥२२॥
करस्फुरच्चम्पकवृन्तस्य संवादमिषादेकान्तस्य । चकार कान्तमतिथिमित्यधुना प्रगल्भतायामुत्तीर्णमनाः ॥२२॥ टोका-प्रगल्भतायां चतुरतायामुत्तीणं कुशलं मनो यस्याः सा प्रौढाऽधुना साम्प्रतं करे हस्ते स्फुरति लगितस्तिष्ठति चम्पकस्य वृन्तं यत्प्रसवबन्धनं तस्य सम्वादः कथनं तस्य मिषात्कान्तमात्मनो दयितमेकान्तस्य निर्जनदेशस्या तिथि चकार तं तथैकान्तस्थाने नोतवतीत्यर्थः ॥२२॥ विजित्य विश्वं विशतस्तस्या हृदयेऽनङ्गस्य धवः शस्याम् । वन्दनमालामिव सुमनजं क्षिप्तवानिदानी मुदं वजन् ॥२३॥
टीका-धवः कान्तः सः विश्वं जनसमूहं विजित्य तस्याः कान्ताया हृदयं विशतो गच्छतोऽनङ्गस्य कामदेवस्य वन्दनमालामिव शस्यां शोभनीयामिदानी मुदं व्रजन् सन् तस्या हृदये सुमस्रजं पुष्पमालां क्षिप्तवान् ॥२३॥
अर्थ-उस उद्यानमें जो लताएँ विपल्लवाभावता-सघन पत्रावलीसे प्रसिद्ध थीं वे अपने समागमको प्राप्त उत्तमवृक्षोंके बीच तरुणपतियोंके बीच 'स्थित तथा विपल्लवाभावता-अल्पतम विपत्तिसे भी रहित-सुखी तरुणियों के समान सुशोभित हो रही थीं ।।२१।।
अर्थ-उस समय चतुराईमें निपुण किसी प्रौढ़ा स्त्रीने हाथमें स्थित चम्पा की बोंड़ीका रहस्य बतानेके बहाने पतिको एकान्त स्थानका अतिथि किया अर्थात् उसे एकान्त स्थानमें ले गई ।।२२॥
अर्थ-इस समय हर्षको प्राप्त होते हुए पतिके समस्त विश्वको जीत कर स्त्रीके हृदयमें प्रवेश करने वाले कामदेवके स्वागतके लिये वन्दनमालाके समान फूलोंकी माला उसके हृदय पर डाल दी ॥२३॥ १. 'भरुभर्तरि काञ्चने' इति विश्वलोचनः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org