________________
७२-७३ ]
अष्टाविंशतितमः सर्गः
वन्दे, स जयकुमारमुनिः वृषस्य धर्मस्योत्तमः पादपः वृक्ष इवाभूत् । ततः एतदीयस्योपयोगाय ममेयं सम्यक् पदानां वाक्यसमूहानां लवा यत्र तस्य भावस्तत्ता सम्पल्लवता जाता अथवा यं पूर्वजं प्राग्जातं गुरुवगं वन्देऽहम् । स वृषस्य उत्तमं पादं पालयतीति वृषोत्तमपादपः प्रशस्त धर्माचरणवान् बभूव । इयं च मम सम्पल्लवता यत्किञ्चित्सम्पत्तिसंग्रहणभूतता सा समीचीन शब्दग्राहकता एतदीयोपयोगायैव भवति ॥ ७१ ॥
इतीयं कवितावल्ली भूयः पल्लविता रसैः । त्रिवर्गं सन्निपातघ्नं फलताद् बलतां सताम् ॥७२॥
इतीयमित्यादि - इत्युक्तप्रकारेण इयं कवितावल्ली रसैः शृङ्गारादिभिः जलैर्वा भूयः पल्लविता पल्लवान् नीता सती बलतां प्रयत्नवतां सतां सभ्यानां सन्निपातं पतनं यद्वा त्रिदोषव्याधि हन्तीति सन्निपातघ्नं त्रिवर्गं धर्मार्थकामरूपं यद्वा शुण्ठीमरिचपिप्पलीरूपं फलतात् ॥ ७२ ॥
अहो काव्यरसः श्रीमान् यदस्य पृषता व्रजेत् । दुर्वर्णतां दुर्जनस्य मुखं साधोः सुवर्णताम् ॥७३॥
१२८१
अहो इत्यादि - काव्यरसः श्रीमान् यत् यस्माद् कारणाद् अस्य पुषता बिन्दुनैव पदशेनापि दुर्जनस्य मुखं दुर्वर्णतां निन्दापरताम उत रजततां व्रजेत् सेयविस्मयभावेन पाण्डुतां गच्छेत्, किन्तु साधोमुखं सुवर्णतां प्रशंसापरत्वेनाह्नावरूपतां तथा हेमभावं व्रजेत् ॥७३॥
इन्हींका चरित वर्णन करनेके लिये मेरा यह समीचीन पदोंका प्रयोग है । अथवा मैं उन पूर्ववर्ती गुरुवर्गको प्रणाम करता हूँ, जो धर्मसम्बन्धी उत्तम आचरणका पालन करता था । मेरी यह शब्दरूप सम्पत्ति इन्हींके उपयोगके लिये है ॥७१॥
Jain Education International
अर्थ- - इस प्रकार रस-शृङ्गारादि रस अथवा जलके द्वारा जो पुनः पल्लवित हुई है, ऐसी यह कविता रूपी लता प्रयत्नशील सत्पुरुषोंके सन्निपात- पतन अथवा त्रिदोषज ज्वरको नष्ट करने वाले त्रिवर्ग-धर्म अर्थ और काम, अथवा सोंठ, मिर्च और पोपल रूप त्रिवर्गको पा ले ॥७२॥
अर्थ – काव्यरूपी रस आश्चर्यकारी है, क्योंकि इसकी बूंद ( पक्षमें पदमात्र ) से ही दुर्जनका मुख दुर्वर्णता - निन्दातत्परता अथवा रजतरूपताको प्राप्त हो जाता है, क्योंकि ईष्यापूर्ण आश्चर्यसे मुख सफेद हो जाता है, अथवा दुर्वर्णताकुत्सितरूपताको प्राप्त हो जाता है और सज्जनका मुख सुवर्णता - प्रशंसा तत्परता अथवा सुवर्णभाव अथवा हर्षजन्य सौरूप्यको प्राप्त हो जाता है ||७३ ||
For Private & Personal Use Only
www.jainelibrary.org