________________
१२२८ जयोदय-महाकाव्यम्
[ २४-२५ लाषावानस्ति । यतिः संयमी च पुनः स्वस्य सर्वस्वमपि त्यक्त्वा परार्थेषु परोपकारेषु प्रवृत्तो भवति, यतः स सुवृत्त उत्तमचारित्रवान् भवति । अनुप्रासोऽलंकारः ॥२३॥ नितम्बिनीषु स्विदनीदृशीषु भासा समासाद्विजितोर्वशीषु ।। अङ्गेन रङ्ग नरराडनन्यभावं प्रलिप्सुः प्रभवेत् सजन्यः ॥२४॥
नितम्बिनीष्टित्यादि-नरराड योऽसौ गृहस्थशिरोमणिः स भासा स्वदीप्त्या विजिता पराभवं नोतोर्वशी स्वर्वेश्याऽपि याभिः समासात् संक्षेपतो न ईदृशी प्रशंसा यासां तास्वनीवृशीषूपमावर्जितासु नितम्बिनीषु स्त्रीषु रङ्गे स्त्रीप्रसङ्गभूमौ जन्यया मुवा सहितः सजन्यो 'जन्या मातृसखोमुदोः' इति विश्वलोचने। स्विवङ्गन शरीरेणापि किलानयभावमपृथग्रूपतां प्रलिप्सुः समिच्छुः प्रभवेत् समुत्साहं गच्छेविति । अनुप्रासोऽलंकारः ॥२४॥ कामारिताया निलयः सुधामा रामापि सामायिकवत्तिनामा। तस्यामतः स्यामतदन्यवृत्तिः सावश्यकस्येति मुनेस्तु वृत्तिः ॥२५॥
कामारिताया इत्यादि-न वशोऽक्षमनसामित्यवशः, अवश एवाक्शकस्तस्य भाव आवश्यकं तेन सहितः सावश्यकस्तस्येन्द्रियजयिनो मुनेस्तु पुनर्वृत्तिः प्रक्रिया सा इतीदृशी भवति यत्किलाहं कामारितायाः स्मरविरुद्धसाया निलयः स्थानं सुष्ठ धाम प्रभावो यस्य स सुधामास्मि, अतो मम रामा रमणयोग्यापि सामायिकवृत्तिनामास्ति, अयनमयः समस्तुल्यश्चासावयश्च समायस्तस्य भावः कर्म वा सामायिकं तत्र वृत्तिर्नाम स्थितिर्यस्याः सा तस्यामहमतदन्यवृत्तिः स्यामेकोभावेन निरतो भवेयमिति । अनुप्रासोऽलं कारः ॥२५॥
मुनि अपने सर्वस्वको भी छोड़ कर परोपकारमें प्रवृत्त रहते हैं ॥२३॥ ___ अर्थ-अथवा यह गृहस्थशिरोमणि अपनी कान्तिसे उर्वशीको जीतनेवाली अनुपम स्त्रियोंमें शरीरसे भी अपग्भावको प्राप्त करनेका इच्छुक होता हुआ रङ्गभूमिमें हर्षसहित होता है ।
भावार्थ-आसक्तिके कारण भिन्न शरीर वाली भी स्त्रियोंको अपने शरीरसे अभिन्न करना चाहता है ।।२४।।
अर्थ-ऊपर गृहस्थजनकी प्रवृत्तिका वर्णन किया, परन्तु षडावश्यकोंका पालन करने वाले मुनिकी वृत्ति इस प्रकार है-वे विचार करते हैं कि मैं कामको विरुद्धताका स्थान हूँ, उत्तम प्रभावशाली हूँ, सामायिक वृत्ति हो मेरी रामारमण करने योग्य है, अतः मैं इसीमें अनन्यवृत्ति होता हूँ, सब ओरसे अपना मन हटा कर समताभावमें ही लगाता हूँ ॥२५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org