________________
२२-२३ ] सप्तविंशतितमः सर्गः
१२२७ विरुद्धवृत्ताविति-लोकः सर्वसाधारणो जनश्छन्दोऽनुगे किलाजानुसारिणि जने तर्षस्य वाञ्छाया निदर्शनं प्रकाशनं तस्यौकः स्थानं भवति, किन्तु विरु द्धवृत्तौ विरुद्धचारिणि रुषमेति कोपं करोति । ऋषेर्भवे त्यागिदशायां तु क्वापि न रोषः कलुषभावो न च तोषः प्रसन्नभावो वा, किन्तु अपदोषः पक्षपातेन रहितो जगतां सर्वेषां जीवानां सर्वेऽपि सुखिनः सन्तु किलेत्येवमात्मक एकः पोष आशीर्वादो भवति । अनुप्रासोऽलंकारः ॥२१॥ प्रवञ्चनार्थ स्वसमञ्चनार्थ वचोऽङ्गिनः स्याज्जगतोऽहितार्थम् । आख्याति विख्यातिमनिच्छुरेव निःस्वार्थविश्वात्मतयषिदेवः ॥२२॥
प्रवञ्चनार्थमित्यादि-अङ्गिनो गहिजनस्य यद् वचो भवति तत्स्वस्य मनीषितस्य समञ्चनं समर्थनमेवार्थः प्रयोजनं यस्य तत् तथा प्रवञ्चनाथं प्रवञ्चना परेषां प्रतारणार्थः प्रयोजनं यस्य तत्, ततो जगतोऽहितार्थ विश्वस्य बाधाकारकमेव स्यात् । किन्तु ऋषिदेवस्तु यत् किञ्चिदास्याति कथयति तद् विख्यातिमात्मश्लाघामनिच्छुरेव सन् निःस्वार्थः स्वस्यैवाभिप्रायस्य पोषणरूपस्स्वार्थस्तेन रहिता वा विश्वात्मता सर्वजनहितकारिता तयाऽऽख्याति कथयति किलेत्यनुप्रासः ॥२२॥
स्ववैभवे देवभवेऽप्यरङ्गी परश्रियां संस्पृहयालुरङ्गी । त्यक्त्वा स्वसर्वस्वमपि प्रवृत्तः पुनः परार्थेषु यतिः सुवृत्तः ॥२३॥ स्ववैभव इत्यादि-अङ्गी संसारी जनो देवेन भाग्येन भवो जन्म यस्य तस्मिन् स्वस्य वैभवे सम्पत्तिनिकरेऽप्यरङ्गी सन्तोषरहितः सन् परस्य श्रियां लक्ष्मीणां संस्पृहयालुरभि
अर्थ-संसारी मनुष्य, आज्ञानुसार चलने वाले मनुष्यसे पूछता है कि आपकी क्या इच्छा है ? अर्थात् क्या चाहते हो ? परन्तु विपरीत प्रवृत्ति वाले मनुष्यके विषयमें क्रोधको प्राप्त होता है। साधुकी दशामें न किसीसे रोष होता है, न संतोष होता है, किन्तु समस्त जगत्को एक निर्दोष आशीर्वाद होता है ॥२१॥
अर्थ-संसारी प्राणीका वचन दूसरेको ठगनेके लिये या अपना समर्थन करने के लिये होता है, अतः वह जगत्के लिये अहितकारी है, परन्तु मुनिराज जो वचन कहते हैं वह आत्मप्रशंसा रहित होकर समस्त जीवोंके कल्याणकी भावनासे ओतप्रोत निःस्वार्थ रूपमें कहते हैं ॥२२॥
अर्थ-संसारी जीव भाग्यसे प्राप्त होने वाले अपने वैभवमें भी संतोषरहित होता हुआ दूसरोंकी लक्ष्मीको इच्छा करता है, परन्तु उत्तम चारित्रके धारक
८०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org