________________
२६-२८] सप्तविंशतितमः सर्गः
१२२९ रमासु रामास्वसमास्वमासु अध्नो जनोऽनित्यमतासु तासु । स किञ्च नो तावदकिचनोऽपि योगो नियोग्यङ्गममत्वलोपी॥२६॥
रमास्वित्यादि-जनः संसारी सोऽनित्यमस्थिर मतं यासा तासु अमासु मा परिमाणं तेन रहितासु किलापरिमितासु असमासु अनन्यसदृशीषु रमासु लक्ष्मीषु रामासु स्त्रीषु अध्नोऽसंतृप्तो भवति, 'मा क्षेपे मानबन्धयोः' इति विश्वलोचने । किन्च, यो योगी स तावदकिञ्चनः किमपि यस्य पार्वे नास्ति सोऽपि भवंस्तासु रमासु रामासु च नियोगी तत्परो न भवति, यतोऽसावङ्गेऽस्मिन् वेहेऽपि ममत्वस्य लोपो भवति ततोऽपि निर्मम स्तिष्ठति । अनुप्रासोऽलंकारः ॥२६।। धृतः क्षतत्राणकचर्मपाशः करेऽसिरेवं खलु चन्द्रहासः । मातङ्गमातम्भितवान् सुपाणे सरोषहुंकारधरः प्रयाणे ॥२७॥
धृत इत्यादि-गृहस्थावस्थायामेकस्मिन् करे क्षतत्राणकरः क्षतत्राणकः स चासो चर्मपाशो गण्डकचमखण्डो धृत एवं खलु परस्मिन करे चन्द्रहासोऽसि तस्तथा रोषेण सहितो यो हुकारस्तत्परः सन् सुष्ठ पस्य पवनस्याणः शब्दो यत्र तस्मिन् सुपाणे प्रयाणे युद्धार्थ निर्गमने मातङ्ग हस्तिनमातम्भितवान् समारुरोहाङ्गोकृतवानिति ॥२७॥ तुम्बी सपिच्छा हृदि सा समिच्छा पुरः पथिच्छादितचक्षुरिच्छा । दिवा विहारो दलिताध्वचारो मुनेः समारोपहृतः सुचारोः ॥२८॥ ___ तुम्बीत्यादि-सुचारोः विश्वप्रसादकस्य समारोपहतो भ्रमविनाशकस्य मुनेः संयमिनः पुनः पार्वे पिच्छया मयूरपक्षनिर्मितया सहिता सपिच्छा तुम्बी कमण्डलुर्भवति
अर्थ संसारी मानव अनुपम, अपरिमित और अनित्य उन प्रसिद्ध लक्ष्मियों तथा स्त्रियोंमें असंतुष्ट रहता है-कभी संतुष्ट नहीं होता, परन्तु शरीरमें भी ममत्व बुद्धिको लुप्त करने वाला वह योगी अकिञ्चन होने पर भी उनमें तत्परताको प्राप्त नहीं होता ॥२६॥
अर्थ-गृहस्थावस्थामें इस इस मानवने एक हाथमें चमड़ेको ढाल और दूसरे हाथमें तलवार धारण की तथा क्रोधसे हुँकारको धारण करता हुआ वह पवनके शब्दसे सहित प्रयाणकाल-युद्धके लिये प्रस्थान करते समय हाथी पर आरूढ हुआ ॥२७॥
अर्थ-परन्तु सब पर प्रसन्नता प्रकट करने वाले एवं संशयापहारी मुनिका विहार दिन में हो होता है, वह भी मनुष्य, पशु आदिके द्वारा मर्दित-क्षुण्ण मार्ग में
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org