________________
१२१८ जयोदय-महाकाव्यम्
[१०४-१०५ मेव न च तव स्तवननिरतमेव द्वाभ्यामपि रहितं तत्तु छाणशं गोरसोत्करमिवोत्ोपणीयं सर्वथा निःसारं परिवदामि त्यागमहमिच्छामीति ॥१०३॥ निविण्णस्य जयस्य संसृतिपथात् सिद्धि समिच्छोः पुनः __गम्भीरां समवाप्य सम्मतिमतः पृच्छां स साक्षात्कविः । मर्मस्पर्शितया प्रबन्धति सतां यं कंचिदीशो विधि
धिष्ण्योत्तानितसंगतः स्म महितो नर्मण्यविघ्नो निधिः ॥१०४॥ निविण्णस्येत्यादि-पुनरनन्तरं संसतिपथात्सागारजीवनान्निविण्णस्य वैराग्यमाप्तस्य सिद्धि समिच्छोर्मुक्तिमभिलषतस्सन्मतिमतः सुबुद्धिषरस्य गम्भीरां पृच्छां समवाप्य विश्लेषणीयं प्रश्नमुपेत्य स साक्षात्कविर्भगवान् यो धिष्ण्यात् सदनादुत्तानितं पृथककृतं संगतं चेष्टितं येषां तैर्महर्षिभिरपि महितः समाराधितो यश्च नर्मणि विनोदे पुनरविघ्नो विघ्नरहितो निधिरिव स ईशो नाभेयः सतां मर्मस्पशितया गृहणीय तयोचितं यं कंचिद् विधि प्रबन्धति स्म समारब्धवान् । प्रबन्धशब्दान्नामधातो रूपं प्रबन्धतीति । 'धिष्ण्यं समनि नक्षत्रे' इति विश्वलोचने । एतस्य चक्रबन्धस्याराणाक्षरनिर्गमनविधिः ॥१०४॥ श्रीमान् श्रेष्ठिचतुर्भुजः स सुषुवे भूरामरोपाह्वयं
वाणीभूषणणिनं घृतवरी देवी च यं धीचयम् । तेनोक्ते द्विगुणत्रयोदश इतः सर्गः श्रियामध्वनि
साम्राज्याभिषवैकभूमिभवने श्रव्येषु चौजस्विनि ॥१०५॥ श्रीमानित्यावि-साम्राज्याभिषवस्यानन्तवीर्यस्य राज्याभिषेकवर्णनयुक्ते । शेषं स्पष्टम् ॥१०५॥
है, ऐसा मैं कहता हूँ॥१०३।। __ अर्थ-इस प्रकार गृहस्थके जीवनसे विरक्त मुक्तिके इच्छुक तथा समीचीन बुद्धिसे युक्त जयकुमारके गम्भीर प्रश्नको प्राप्त कर उन आदि जिनेन्द्रने जो कि गृहविरक्त साधुओंके द्वारा पूजित, विनोदपूर्ण वार्ता करनेमें कुशल एवं साक्षात् कवि थे, सत्पुरुषों के मर्मको स्पर्श करने वाली वाणीसे जो कुछ कहा, वह प्रबन्ध काव्यके समान आचरण करता है ।।१०४॥ - इति श्रीवाणीभूषण-ब्रह्मचारिभूरामलशास्त्रिविरचिते सुलोचनास्वयं
वरापरनामजयोदयमहाकाव्ये षड्विशतितमः सर्गः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org