________________
१२०२ जयोदय-महाकाव्यम्
[७१-७३ दौरकैः प्रसन्नानि च तानि अक्षराणि ककारादीनि तानि पुष्पाणि तेषां मालाऽऽवर्तिता कृता स्तुतिः समारब्धेति ॥७०॥ जयत्यहो आदिमतीर्थनाथ ! शक्रादिभिप्त्वं परिणीतगाथः । हितस्य वम स्वकया पवित्रं न्यदेशि तत्त्वं भुवनस्य मित्रम् ।।७१॥
जयतीत्यादि-अहो आदिमतीर्थनाथ ! त्वं शक्रादिभिरपि परिणीता कृता गाथा स्तुतिकथा यस्य स जयसि सम्भवसिः, यतस्त्वयैव त्वकया पवित्रं निर्वृषणं हितस्य सुखस्य वर्मायनं यद्भुवनस्याखिलप्राणिवर्गस्य मित्रं सुहृत् तत्त्वं यथार्थवस्तुस्वरूपं न्यदेशि कथितमस्ति ।।७१॥ हे देव दोषावरणप्रहीण ! त्वामाश्रयेद् भक्तिवशः प्रवीणः । नमामि तत्त्वाधिगमार्थमारान्न मामितः पश्यतु मारधारा ॥७२॥
हे देवेत्यादि-हे देव ! दोषावरणप्रहीण ! दोषा रागावय आवरणं ज्ञानदर्शनाभावरूपं ततः प्रहीण ! पूर्णरूपेण रहित ! भक्तिवशः प्रवीणो बुद्धिमान् नरस्त्वामेवाश्रयेत् । हे देव ! अहं त्वां तत्त्वस्य वस्तुत्वस्याधिगमार्थ परिज्ञानार्थमाराच्छीघ्रमेव नमामि नमस्करोमि, यतो मामितः आरभ्य मारस्य कामदेवस्य धारा शस्त्रास्त्रभागो न पश्यतु मा स्पृशतु ॥७२॥ भवन्ति भो रागरुषामधीना दीना जना ये विषयेयु लीनाः। त्वां वीतरागं च वृथा लपन्ति चौरा यथा चन्द्रमसं शपन्ति ॥७३॥
वाले जयकुमारने आदिपुरुष भगवान् वृषभदेवके क्षमादिगुणरूपी सूतसे स्पष्ट अक्षररूपी पुष्पोंकी माला बनाई, अर्थात् स्तुति करना प्रारम्भ किया ॥७०॥ ____ अर्थ-हे आद्यतीर्थकर ! आपकी स्तुति इन्द्रादि देवोंके द्वारा की गई है, अतः आप जयवन्त प्रवर्तते हैं। आपने ही जगत्के जीवोंके लिये वह तत्त्वयथार्थ वस्तुका स्वरूप कहा है, जो हितका पवित्र मार्ग तथा समस्त प्राणिसमूहका मित्र है ॥७॥ ____ अर्थ-हे रागादि दोष तथा ज्ञानावरणादि कर्मोंसे रहित देव ! भक्तिके वशीभूत चतुर मनुष्य आपका ही आश्रय लेते हैं, अतः तत्त्वज्ञानके लिये मैं शीघ्र ही आपको नमस्कार करता हूँ और चाहता हूँ कि अब कामदेवके अस्त्र-शस्त्रोंकी धारा मुझे न देखे ॥७२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org