________________
६५-६६]
षड्विंशः सर्गः
११९९
जिनशासनमित्यादि-सुरा यक्षेन्द्रा इतरेभ्यो दुरासदं धर्तुमशक्यमित्यहो वृषचक्रमित्याह्वयतो नामतो लसत् प्रख्यातं तन्मूर्तिमज्जिनशासनमेव यदमितरेतोऽत्यधिकतेजोधारकं तन्निवहन्तितरामित्यपह्नवोऽलंकारः ॥६४॥ जिनचरणवराणामर्चनातत्पराणां
किमिति नहि सुराणां सत्कृतस्याङ्कुराणाम् । उदय इह ततानां मूर्तभावं गतानां
चमरमिषमितानां घूर्णते स्फूजितानाम् ॥६५।। जिनचरणेत्यादि-इहाहंदुपाश्रये चरणेषु वराः श्रेष्ठाश्चरणवरा जिनानामहतां ये चरणावरास्तेषामर्चनायामुपासनायां तत्पराणां तल्लीनानां सुराणां सत्कृतस्य पुण्यकर्मणो येऽङ्कुरास्तेषाम्, कोवृशानां तेषामिति चेत् ? स्फूजितानां स्फूर्ति प्रादुर्भूति गतानामेवं मूर्तभावं गतानां मूर्तमाकारमवाप्तानां ततानां प्रसूतानां तथा चमराणां मिषं व्याजमितानामुपगतानामुक्यः समुद्भवः किमिति नहि, किन्तु भवत्येवेति काकुपूर्वोऽपह्नवालंकारः ॥६५॥ भवान्तरोद्बोधनमङ्गिनामतः प्रभोः परावृत्तसतः प्रभावतः । महोऽस्त्यहो कोटिगुणं गतोऽनया रविः सवित्तापकतापकृत्तया ॥६६॥ _भवान्तरोदबोधनमित्यादि-प्रभोः स्वामिनः प्रभावृत्तं भामण्डलमेव सद्वस्तु तस्य प्रभावृत्तस्य सतोऽतः प्रभावतः शक्तितोऽङ्गिनां भव्यानां प्राणिनां भवान्तरस्य प्राग् जन्मनोऽप्युद्घोषनं ज्ञानमस्ति जायते, तदेतत्प्रभावृत्तं नाम सविद् रविरेवास्ति यस्तापकतायाः संतापवृत्तेरपकृत्ता निरसनता तयाऽनया स्पष्टदृश्यया कोटिगुणं महः पूर्वापेक्ष.
. अर्थ-यक्षेन्द्र अन्य देवोंके द्वारा दुरासद एवं अपरिमित तेजसे युक्त जिस शोभायमान धर्मचक्रको धारण कर रहे थे, वह धर्मचक्र नहीं था किन्तु मूर्तिमान जिनशासन ही था ॥६४॥
- अर्थ-समवसरणमें जो चमरोंका समूह चञ्चल हो रहा था, वह क्या जिनेन्द्रदेवके श्रेष्ठ चरणोंकी पूजामें तल्लीन देवोंके सुविस्तृत तथा चमरोंके बहाने मूर्तरूपको प्राप्त शक्तिसम्पन्न पुण्याकुरोंका उदय नहीं था ? अवश्य था। तात्पर्य यह है कि समवसरणमें देवों द्वारा डुलाये जा रहे चमर उनके पुण्याङ्करोंके समान जान पड़ते थे ॥६५।।
अर्थ-प्रभुकी जिस वस्तुके प्रभावसे प्राणियोंको भवान्तरों-अतोत-अनागत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org