________________
१९८४ जयोदय-महाकाव्यम्
[२७-२८ यथाशक्ति समनुकूलान् कुर्वन्, किन्तु द्विषतो वैरिणो विरुद्धं व्रजतो वा जयन् निवारयंस्तया सतो नीतिमार्गानुगामिनो जनान् मुदं नयन् प्रसन्नान्कुर्वन्नेवंरोत्या हे अङ्गज ! विपक्षः सशत्रुसमुत्पाव एव लक्षणं यस्य ततो राजयक्ष्मणो नाम प्रसिद्धात्तस्मान्नाशकारकात्प्ररुजो रोगात् पृथिवी रक्ष सम्भालयेत्यनुप्रासोऽलंकारः ॥२६॥
श्रुतमाश्रुतमात्रकं सकः प्रवहन्नञ्जलिनाऽलिनाशकः । निजमूनि जवेन तीर्थतः स्वमतः पूततमं त्वमन्यत ॥२७॥
श्रुतमित्यादि-सकोऽनन्तवोर्यो योऽलि(रि) नाशक: शत्रुसंहारकारक: स श्रुतमिदं गुरुसूक्तमास्त्रुतमात्रकमेव तत्कालमेव मुखान्निर्गतसमय एव जवेन वेगेनाञ्जलिना करसंपुटेन निजमूनि स्वकीये मस्तके प्रवहन् सन्नतस्तीर्थतस्तु पुनः स्वमात्मानं पूततममत्यन्तपवित्रभमन्यतेत्यनुप्रासोऽलंकारः ॥२७॥ परिपीय हितोपदेशितं सहसा स्वस्थतया स्थितेऽन्वितम् । इह वन्दिजनस्य चाऽभवज्जय नन्देति वचोऽपि पथ्यवत ॥२८॥
परिपीयेत्यादि - अन्वितमनुकूलतया समागतमिदमुपर्युक्तं हितेन गुरुणोपदेशितं सहसौषधवत् परिपीय यथेष्टं पीत्वा सहसा स्वस्थतया निराकुलभावेन स्थिते सति तस्मिन्ननन्तवीर्ये नवीनभूपे तदेह वन्दिजनस्य मागधवर्गस्य जय नन्देत्येवमादिवचोऽपि पथ्यववभवत् । उपमालंकारः ॥२८॥
शत्रुओंको जातते हुए और नीतिमार्गानुगामी सज्जनोंको हर्ष प्राप्त कराते हुए तुम शत्रु नामक राजयक्ष्मा-टी० बी रोगसे प्रजाको रक्षा करो ॥२६॥
अर्थ-शत्रुओंका नाश करने वाले राजा अनन्तवीर्यने पिता-जयकुमारके द्वारा उपदिष्ट श्रुतको सुननेके साथ ही शीघ्र अञ्जलि द्वारा अपने मस्तक पर धारण किया और तीर्थस्वरूप उस श्रुत-उपदेशसे अपने आपको अत्यन्त पवित्र माना।
भावार्थ-पिताके उपदेशको अनन्तवोर्यने हाथ जोड़ मस्तकसे लगाकर स्वीकृत किया और अपने आपको कृतकृत्य माना ।।२७।। .
अर्थ-इसप्रकार हितकारी जयकुमारके द्वारा उपदिष्ट अनुकूल उपदेशको औषधके समान शीघ्र पीकर जब राजा अनन्तवीर्य स्वस्थताका अनुभव करने लगे, तब यहाँ वन्दिजनोंके 'जय, नन्द, वर्धस्व' आदि वचन पथ्यके समान प्रकट हुए ॥२८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org