________________
२०-२२ ] षड्विंशः सर्गः
११८१ सुभगेत्यादि-द्विषाञ्जितः शत्रुनाशकस्य भवतोऽनन्तवीर्यस्य सभा तदा संक्रमतोऽनुक्रमरूपेण शुभेन सरलचित्तेन गान्धिकेन गन्धदायकेनापिताः पिचुका गन्धप्रदतूलांशा यस्या सा विरदस्य यशसः स्फुरन्तो येऽङकुरास्तेषामास्पदं स्थानं यत्र सा किलवं सुभगा भाग्यवत्यभवद् बभूवेत्युत्प्रेक्षानुप्रासश्चालङ्कारः ॥१९॥
अथ दृक्पथ एव संकथः खलु नः पल्लवितो मनोरथः । प्रभवे नृभवे च सम्भवाविति ताम्बूलवलानि कोऽप्यदात् ।।२०॥
अथेत्यादि-अथ कोऽपि जनोऽस्मिन् नभवे मनुष्यजन्मनि नोऽस्माकं समीचीना कथा यस्य स संकथे मनोरथोऽन्तरङ्गाभिप्रायोऽस्मै प्रभवे नवीनाय भूपाय नोऽस्माकं वृक्पथ एव सम्मुखत एव पल्लवितो जात इत्येव सूचयन्नेव खलु ताम्बूलस्य दलानि अदात् स्त्तवान् । अत्राप्युत्प्रेक्षानुप्रासश्चालंकारः॥२०॥
अवतारयति स्म हत्तु न शशिनो बिम्बवदुन्नयन् पुनः । अमुकाननशाननन्दनं शुचि नीराजनभाजनं जनः ॥२१॥ अवतारयतीत्यादि-जनः कोऽपि मनुष्यः पुनरिवानी शशिनश्चन्द्रस्य बिम्बवच्छुचि निर्मलं यन्नोऽस्माकं हृच्चित्तं तु किलेति नीराजनभाजनमारातिकं यदमुकस्य राज्ञोऽनन्तवीर्यस्य यदाननं तस्य शानं रुचिदलं तस्य नन्दनं समृद्धिकरं तदिव वा नन्दनमानन्दबायकं तदुदयन्नवतारयति स्मेत्युपमानुप्रासश्च ॥२१॥
प्रमितं शमितन्मना नवमगवं सन्नगदर्शनोत्सवम् । वचनं स च नर्महेतवे समयच्छत्तुज आजवं जवे ॥२२॥
अर्थ-उस समय शत्रुविजयो माननीय राजा अनन्तवीर्यकी वह भाग्यशालिनी सभा जिसमें कि शुभ गन्धदायक लोगोंके द्वारा अनुक्रमसे इत्रकी फुइयां वितरणकी जा रही थीं, ऐसी जान पड़ती थी मानों यशके शोभायमान अङ्करोंका स्थान ही बन गई हो ॥१९॥ ___ अर्थ-तदनन्तर किसो मनुष्यने इस मनुष्य भवमें नवीन राजाके लिये समीचीन कथासे युक्त जो हमारा मनोरथ था, वह सम्मुख ही पल्लवित-विकसित हो गया, यह सूचित करते हुए मानो हर्षसे सबको पान दिये ॥२०॥
अर्थ-हमारा हृदय चन्द्रबिम्बके समान उज्ज्वल है, यह प्रकट करते हुए किसी मनुष्यने राजा अनन्तवीर्यके मुखको कान्तिको बढ़ाने वाला उज्ज्वल आरतीका पात्र उठाकर आरती उतारी ॥२१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org