________________
११८० जयोदय-महाकाव्यम्
[१७-१९ सुरसिन्धुरित्यादि-सुरसिन्धुराकाशगङ्गा सा तमनन्तवीयं नृपतीनां वैवतमधिनायकं प्रतिपन्नवतीव जानतीव सम्मवाद्धर्षवशाद्विलसतां चलतां चामला(रा)नां या सम्पच्छोभा तस्याः पदाच्छलाववतीर्य समागत्य सेवासिञ्चदित्यपह नुतिः॥१६॥ स्वजनोपहृताऽतिविस्तृताऽमलमुक्ताफलभाजनैस्तता । धवमाप्य नवं न शम्फली सहसाभूत्सहसा तदा स्थली ॥१७॥
स्वजनोपहतेत्यादि-स्थलीयमवनिः सैव शम्फली वा सम्भलो वा विलासिनी तदा काले स्वजनैः प्रजाजनैरुपहृतानि उपहारमानीतान्यतिविस्तृतानि, अतस्ततो धृतानि अमलानां निर्दोषाणां मुक्ताफलानां मौक्तिकानां भाजनानि तेः सहसाऽकस्मादेव तता व्याप्ता सती नवं नवीनं धवं स्वामिनमाप्य लब्ध्वा सहसा हसेन हास्येन सहिताऽभूत् । नु वितर्के। उत्प्रेक्षालंकारः ॥१७॥
जयवारयवारसम्पदा परिषत् सा परिसंचरन्मदा । मृदुलोमदलोमयाञ्चिता नवराजः सवराजसान्मिता ॥१८॥ जयवारेत्यादि-तदा सा परिषत् सभा नवश्चासो राट् चेति नवराट् तस्य नवीनभूपस्य सवराजो राज्याभिषेकस्तत्सात्तस्य सम्बन्धाम्मिताऽनुगृहीतातः परिसंचरति विस्तारमेति मदो हर्षो यस्यां सा सती जयवारा जयस्य संसूचका ये यवारा मङ्गलाजकुरास्तेषां सम्पदा शोभया मृदूनां लोम्नां दलस्य समूहस्योमा शोभा तयाञ्चिताऽभूत् । उत्प्रेक्षानुप्रासश्चालंकारः ।।१८॥
सुभगा शुभगान्धिकार्पितपिचुका संक्रमतो द्विषाग्जितः । विरवस्फुरदकुरास्पवाऽभवदेवं भवतः सभा तवा ॥१९॥
अर्थ-आकाशगङ्गाने अनन्तवीर्यको मानों राजाओंका अधिनायक स्वीकृत किया था, इसलिये निर्मल चामरोंको शोभाके छलसे उसीसे हर्षपूर्वक उनका अभिषेक किया था ॥१६॥
अर्थ-उस समय प्रजाजनोंके द्वारा उपहारमें लाये हुए मुक्ताफलोंके निर्मल पात्रोंसे व्याप्त विस्तृत भूमि रूपी विलासिनी स्त्री नूतन पतिको प्राप्त कर अकस्मात् ही क्या हँसने लगी थी ॥१७॥ ___अर्थ-जिसमें सब ओर हर्ष छाया हुआ था, ऐसी नवीन राजाके अभिषेकसम्बन्धी वह सभा विजयसूचक मङ्गलाङ्करोंको शोभासे ऐसी प्रतिभासित हो रही थी, मानों कोमल रोमाञ्चसमूहकी शोभासे ही सहित हो रही हो ।।१८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org