________________
११७८ जयोदय-महाकाव्यम्
[११-१३ उपकुङकुममुप्तवान् बलादिह बीजानि सुतण्डुलच्छलात् । फलतूतलतुष्टिवल्लरीति तदा भालभुवीष्टिकृद्धरिः ॥११॥ उपकुङ्कुममित्यादि--इष्टिकृद्ध रिः पुरोहितः स उत्तरा श्रेष्ठा या तुष्टिरेव बल्लरी सा फलतु सफला भवतु किलेतीह भालभुवि ललाटक्षेत्रे बलात्प्रयत्नपूर्वकं तदा काले सुतण्डुकानां छलाद् बीजानि कुङकुममुप युज्योपकुकुममुप्तवान् समारोपयामासेत्यनुप्रासश्चापह नुतिश्च ॥११॥
धरणीभरणीतिसक्रियां प्रततां साम्प्रतभिन्धिकां प्रियाम् । धृतवान् धृतवानमुद्धनी मृदुमौलिच्छलतोऽस्य मूर्धनि ॥१२॥ धरणीत्यादि-धृतं ललाटे निक्षिप्तं वानं सौरभं तिलकात्मकं यतो या मुत् प्रसन्नता तस्या पनी स्वामी जयकुमारः स साम्प्रतमधुनाऽस्य मूर्धनि अनन्तवीर्यस्य शिरसि मृदुमौलिच्छलतः समधुरमुकुटव्याजेन धरण्या भूमेर्यो भरो गुरुतरो भारस्तस्य नीतिः समुद्धरणं तस्याः सत्क्रिया यस्यां तां प्रततां विस्तृतां प्रियामुचितामिन्धिका भाराधारप्रक्रियां धृतवान्, यतः स गुरुतरमपि भूभारं सुखेनोवोदित्यपह नुतिश्चानुप्रासश्चालंकारः ॥१२॥
हरिपीठगतः स राजतामनुकुर्वन् विशदांशकस्तताम् । उदयाचलचुम्बिचन्द्रवत् कुमुदालम्बनलम्भनोऽभवत् ॥१३॥ हरिपीठगत इत्यादि-हरिपीठगतः सिंहासनस्थः सोऽनन्तवीर्यो विशवान्यंशुकानि वस्त्राणि यस्य सः, पक्षे विशदा निर्मला अंशवः किरणा यस्य सः, ततां विस्तृतां राजतां भूपालतां पक्षे चन्द्रतामनुकुर्वन् स्वीकुर्वाण उदयाचलचुम्बिचन्द्रवत् पूर्वपर्वतस्थेन्दुरिव
अर्थ-प्रधान पुरोहितने अनन्तवीर्यके ललाटरूपी खेतमें कुङ्कुमका तिलक लगानेके बाद प्रयत्नपूर्वक चांवल लगाये थे, मानों इस भावनासे कि यहाँ उत्कृष्ट संतोषरूपी लता फलीभूत हो ॥११॥ ____ अर्थ-ललाटपर लगाये गये सुगन्धित तिलकसे प्रसन्नताका अनुभव करने वाले जयकुमारने अनन्तवीर्यके मस्तकपर मनोहर मुकुटके छलसे इस समय पृथिवीका भार धारण करनेकी नीतिको प्रकट करने वाली विस्तृत एवं समुचित भारारोपण रूप क्रियाको संपन्न किया था ॥१२।। ___अर्थ-सिंहासनपर स्थित विशदांशुक-श्वेतवस्त्रधारी (पक्षमें धवल किरणोंसे युक्त) तथा विस्तृत राजता-भूपालता (पक्ष में चन्द्रता) को स्वीकृत करते हुए अनन्तवीर्य उदयाचलपर स्थित चन्द्रमाके समान कुमुवालम्बनलम्भनः-पृथिवी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org