________________
८३-८५] पञ्चविंशतितमः सर्गः
११७१ न वृषमेत्यनुषङ्गजमप्यथ सततमेनसि संविलसत्कथः । अहह मूढमना मनुजोऽमृतं समपहाय विषं पिबति स्वतः ।।८३॥
न वृषमित्यादि-अहह महदाश्चर्यस्थानमेतद् यदयं मूढमना विचारविहीनहृदयो मनुजो वृषं धर्म प्रयत्नेन न करोतीति तु तावदास्तां किन्त्वनुषङ्गजमपि प्रसङ्गवशादनायासतयाऽऽप्राप्तमपि नैति नानुतिष्ठति, सततं निरन्तरमेनसि पापाचारे संविलसति समुत्साहमेति कथा वार्ता यस्य सोऽथ सम्भवति सोऽयममृतं समपहाय परित्यज्य स्वत एव विषं प्राणहरं पिबति । मोहमुग्धस्य स्वभावोक्तिरलंकारोऽयम् । अथात्र प्रश्ने वर्तते ।।८३॥ यदि हृषीकसुखान्यपि हे जिन किल फलानि वृषस्य हि शाखिनः । न किममी सहिताश्च सुखाशया वृषमुषन्ति नु सन्ति मलाशयाः ॥८४॥
यदीत्यादि- हे जिन ! भगवन् ! यदि किल हृषीकसुखानीन्द्रियजन्यान्यपि सुखानि वृषस्य हि शाखिनो धर्मवृक्षस्यैव फलानि सन्ति, तदा पुनरमी सुखस्याशयाभिलाषया सहिताश्च सन्तो वृषं धर्म किन्नोषन्ति सेवन्ते, मलः पापयुक्तः कृपणो वाऽऽशयोsभिप्रायो येषां ते भवन्तीति । नु वितर्के ॥८४॥ स सुतत्त्वमहत्त्वदायिनी वृषचिन्तामणिसंविधायिनीम् । भवभोगवपुष्षु निःस्पृहो हृदि चिन्तामणिमित्यगावहो ॥८५॥
स इत्यादि-स जयकुमारः सुतत्त्वस्यात्मनो महत्त्वं बातोति तां सुतत्त्वमहत्त्वदायिनों वृषो धर्मः स एव चिन्तामणिर्वाञ्छितपूर्तिकर इति संविधानं करोतीति तां वृषचिन्तामणिसंविधायिनीमिति पूर्वोक्तरूपां चिन्तानुचित्तवृत्तिः सैव मणिस्तामगाज
अर्थ-आश्चर्य है कि यह मूढहृदय मनुष्य धर्मको प्रयत्नपूर्वक नहीं करता है यह दूर रहे, किन्तु अनायास प्राप्त धर्मको भी नहीं करता है, इसके विपरीत पापाचारविषयक कथाओंमें हो संलग्न रहता है। ऐसा जान पड़ता है कि यह अमृतको छोड़कर स्वयं विषको पीता है ।।८३॥ __ अर्थ-हे जिन ! हे भगवन् ! यदि इन्द्रियजन्य सुख भी धर्मरूपी वृक्षके फल हैं, तो सुखकी अभिलाषासे सहित ये प्राणी धर्मकी सेवा क्यों नहीं करते ? मलिन अभिप्राय वाले क्यों है ? ||८४॥
अर्थ-इस प्रकार संसार, भोग और शरीरमें निःस्पृह भावको धारण करने वाले जयकुमार आत्मतत्त्वकी महिमाको देने वाली तथा धर्म चिन्तामणिको
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org