________________
४६-४८ ]
पञ्चविंशतितमः सर्गः
भृतिमितीच्छति वत्स ! परिच्छदः शशिमुखी शुचिभूषणसम्पदः । तनय एष परं परिपोषणं स्वयमथास्तु पुमान् विधिचर्वणम् ||४६ ||
भृतिमित्यादि - हे वत्स ! परिच्छदः कर्मकरादीनां समूहः स केवलं भूति निज वृत्तिमित्येवेच्छति । शशिमुखी या स्त्री सा शुचीनां सुन्दराणां भूषणानां सम्पदः शोभा इच्छति । एष आत्मजनामधेयस्तनयः स परं केवलं परिपोषणमेवेच्छति । विधेः कर्मणश्चर्वणं तु पुमान् स्वयमस्तु । अथेति पूर्णरूपेण ॥ ४६ ॥
११५७.
अपि परेतरथान्तमथाङ्गना पितृवनान्तममी परिवारिणः । पुरुष एष हि दुर्गतिगह्वरे स्वकृतदुष्कृतमेष्यति निर्घृणः || ४७||
अपीत्यादि - अपि चान्यच्चिन्तनीयं यदियमङ्गना स्त्री सा परेतरथान्तं शवशिबिकारचनापर्यन्तमेवाथ पुनरमी परिवारिणो जनाः पितृवनान्तं श्मशानपर्यन्तं गच्छन्ति । स्वकृतं निजाजितं दुष्कृतं पापकर्म तत्तु निर्घृणो लज्जारहित एष पुरुषो हि दुर्गतिगह्वरे गत्वा स्वयमेष्यति, अथावश्यमिति ॥४७॥
निजनिजोचितचेष्टितवागुरावकलिताकलितानविपधुरा ।
सुविधुरा हि नरास्तु नराधिप ! किमिव तत्र कदर्थनमाक्षिप ॥ ४८
निज निजेत्यादि - हे नराधिपेति स्वात्मन एव सम्बोधनम् । निजनिजोचितं स्वस्वकृतं यच्चेष्टितं तदेव वागुरा बन्धनरज्जू तयावकलिता बद्धाः सर्वेऽपि नराः प्राणिनः कले: पापस्य यस्तानः प्रसारस्ततो या विपद् वाधा तस्या या धूरग्रभागस्तया हेतुभूतया
अन्य सहायकको नहीं पाता हूँ ||४५ ||
अर्थ - हे वत्स ! इस जगत् में परिच्छद - नौकर-चाकर आदि का समूह अपना वेतन चाहता है, स्त्री सुन्दर आभूषणोंकी शोभा चाहती है और पुत्र अत्यधिक पोषण चाहता है, परन्तु कर्मका चर्बण (चबेना) स्वयं पुरुषको बनना पड़ता है ।
भावार्थ- स्त्री -पुत्रादिको प्रसन्न करनेके लिये जो अनैतिक कार्य करता है, उसका फल उसे स्वयं ही भोगना पड़ता है || ४६ ||
अर्थ- स्त्री शशिबिका - अरथी बनानेके स्थान तक और ये परिवारके लोग श्मशान तक जाते हैं, परन्तु स्वकृत पाप कर्मको लेकर यह निर्लज्ज आत्मा ही दुर्गति में जाता है ॥४७॥
अर्थ - हे राजन् | अपनी-अपनी चेष्टाओं-स्वकृत कर्मकलापोंसे बद्ध सभी मनुष्य - सभी प्राणी पापके प्रसारसे होनेवाली बाधाके अग्रभागसे अत्यन्त दुःखी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org