________________
११५० जयोदय-महाकाव्यम्
[ २७-२९ ननु परिग्रह एष बलादककृदय दारजनः खलुदारकः । स परितः परिवारिगणोऽभवद् गृहमिदं स्फुटबन्धनगेहवत् ॥२७॥
नन्वित्यादि-परितो ग्रह इव परिग्रहो धनादिसमस्तपरिकर एष बलात् स्वशक्त्याऽककृत् कष्टदायकोऽस्ति । ननु नियमेनाथ पुनाराणां स्त्रीणां जन: समूहः स दारकोऽर्थादेव विदारणकरः खलु । स परिवारिणो गणश्च यत्परितोऽभवदिदं गृह स्फुटबन्धनगेहवत् कारागारतुल्यमेव ।२७॥
यदपि दस्युतया हितमात्मने तदपहर्तुमहो भवकानने । परिजने परिगच्छति मुह्यतां विमतिरेव गतिस्तु कुतः सताम् ॥२८॥
यदपीत्यादि-अहो अस्मिन् भवकानने यदपि किञ्चिद्वस्तु आत्मने हितं भाति साधुसङ्गमादि तदपहर्तु दस्युतया चोररूपेण परिगच्छति प्रयत्नं कुर्वति परिजनेऽस्मिन् कुटुम्बवर्गे विमतिविचारहीन एव विमुह्यताम् सतां तु पुनरत्र कुतः कारणाद् गतिः प्रवृत्तिः स्यान्न कुतोऽपीति काकूक्तिः ॥२८॥ परिजनाः कुलपादपके क्षणमधिवसन्ति च यान्ति च पक्षिणः । फलमवाप्य किमप्यथ ते रयाजगति यान्ति महीन्द्र ! यदृच्छया ।।२९।।
परिजना इत्यादि-अथ जगतीदं कुलमेव पादपः स एव पादपकस्तस्मिन्नमी परिजनाः पुत्रादयस्ते क्षणमषिवसन्ति किञ्चित्कालं तिष्ठन्ति पक्षिणः पक्षकारिणश्च सन्ति, किन्तु हे महीन्द्र ! भूपते! तेऽपि किञ्चित्फलं स्वचेष्टानुसारमवाप्य रयादेव स्वेच्छया यान्ति गच्छन्ति ॥२९॥
अर्थ-निश्चयसे यह परिग्रह स्वशक्तिसे दुःखको करने वाला है । दारजनस्त्रोसमूह अपने नामसे ही विदारण करनेवाला है। यह परिवार-कुटुम्बिजनोंका समूह परिवार-चारों ओरसे घेरा डालने वाला है और घर स्पष्ट ही कारागारके समान है ॥२७॥ __ अर्थ-इस भव रूपी वनमें आत्माके हितकारो साधुसमागम आदिको चोर रूपसे अपहरण करनेके लिये प्रयत्नशील कुटुम्बीजनमें बुद्धिहीन मनुष्य भले ही मोहको प्राप्त हो, परन्तु सत्पुरुषोंकी इसमें प्रवृत्ति कैसे हो सकती है ? अर्थात् नहीं हो सकती ॥२८॥
अर्थ-इस संसारमें कुलरूप वृक्षपर परिजनरूपी पक्षी (पक्षमें पक्ष करने वाले) कुछ ही क्षणतक बसते हैं, ठहरते हैं और फिर हे राजन् ! अपनी चेष्टाके अनुरूप फल प्राप्तकर शीघ्र ही इच्छानुसार चले जाते हैं ।।२९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org